SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् प्रथमः पल्लवः ॥१०॥ क्षिप्ताः सन्ति, एते तु जगदुत्तमानि रत्नानि दृश्यन्ते । एतदाश्चर्ये पतितस्य श्रेष्ठीन् ईहाऽपोहं कुर्वतो घटिकाद्वयमात्रेण साधुदानं स्मृतिपथमागतम् । हुं ज्ञातमिदमधुनाऽस्य हार्दम् । प्रिये ! अत्र न मम तव पितुः नाऽन्यस्य कस्यापि महिमा; एतत्सर्व मुनिदानविलसितम्। हे प्रिये ! त्वया दत्तसक्थुककोस्थलीकां लात्वा निर्गतः, इत्यादिः पुनरागमनपर्यन्तः सर्वो ब्यतिकरः प्रियाऽग्रे निवेदितः। मुग्धे! तस्मिन् दिने पारणावसरे यादृशोमुनिदर्शने जाते भावोल्लासोजातस्तादृश आजन्म पर्यन्तंप्रबलेऽपि निमित्तसंयोगे पूर्वं न कदाप्यनुभूतः । तमनुभवमहमेव जानामि, वा जिनो वेत्ति । द्वित्रिवेलायामिदृशो भावोल्लासो भवति चेत्तदा मुक्तिर्न दुर्लभा। प्रिये ! पुनरभिलषामि तद्दिनं कदा समेष्यति । इति धवगिरं श्रुत्वा परमानन्दं धर्मं च प्राप्ता । तद्रत्नप्राप्त्या सर्व सांसारिकसुखं धर्मश्च | वृद्धिं प्राप्तौ, श्रेष्ठीभार्या चाऽऽजन्मधर्ममाराध्य श्रीमज्जैनशासनोन्नतिंच कृत्वाऽन्ते समाधिमरणेन मृतोचतुर्थदेवलोके मित्रतयोत्पन्नौ । तत्श्च्युत्वा विदेहे सेत्स्यतः। एवमागमोक्तविधिना धर्माराधकस्य इह-परभवे सर्वप्रबलपुण्योदये धर्मे मतिरविच्छिन्ना भवति । कदापि 'विचित्रा कर्मणां | गतिः' इत्युक्तेः पापोदये सांसारिकसुखं त्रुट्यति,परं धर्मे मतिर्न त्रुट्यति; प्रत्युत धर्मेच्छाऽधिकतरा भवति। अथ मिथ्यात्वश्रद्धया निदानकरणादिना वा विराधिता धर्मप्रवृत्तिः कर्मनिर्जरां न करोति। पापानुबन्धिपुण्यबन्धो भवति। स किदृशः? तस्योदये विषय - कषायाः प्रबला भवन्ति, तस्य धर्ममतिश्च न भवति । यथा यथा पापमाचरति तथा तथा लक्ष्म्यादिवृद्धिर्भवति । यदा पुनः सत्सङ्गत्यादिकारणेन धर्म कर्तुंमतिरुत्पद्यते तथापिधर्मं कर्तुं न शक्नोति, प्रत्युत केनाऽप्यन्तरायगयोगेन सङ्कटे पतति, तदुःखेन | जाताऽपि दानादिधर्ममतिर्नश्यति । यदि पुनरधर्मेहा भवति तदा तद् दुःखं नश्यति । विराधकस्य पुण्यं पापवृद्धिकारकं भवति, | यथा विश्वभूतेः ब्राह्मणस्य । तद्यथा Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy