________________
श्रीधन्यचरित्रम्
प्रथमः
पल्लवः
मया पूर्वं भवन्त प्रत्युक्तं यत्सत्यं यूयं यातु यातु, त्वद्गमनमात्रोऽन्तरायः, तत्र गते किमपि मार्गणमपि न जातं भविष्यति, यस्मिन दिने यूयं गतास्तस्मिन् दिने मम पित्रा रत्नैः कोस्थलीकाऽऽपूर्य दत्ता दृश्यते। इत्येवं श्रुत्वा श्रेष्ठि भोजनं कुर्वाणश्चिन्तयति-इयं मुग्धा किं जानाति रत्नपाषाणयोर्विभेदम् ? पञ्चवर्णपाषाणानि दृष्ट्वाऽज्ञतया रत्नभ्रमणेन वर्तते। तया तु पुनः पुनर्मातापित्रादिनां |' वर्ण्यमाने श्रेष्ठिनोक्तम्-'"किं मुग्धा प्रस्फूलनं करोषि ? तव पित्रा यद्दत्तं तन्मच्चित्तं जानाति, त्वमपि ज्ञास्यसि; अतो मौनं कुरु" | ततस्तया चिन्तितम्-'अहो ! निष्ठुरो मम भर्ती, इदमनर्गलं धनं दत्तं तथापि न गुणग्रहणं करोति' । इति ध्यात्वा पुनर्वावदितुं लग्ना-"स्वामिन् ! एतान्यमूल्यमूल्यानि रत्नानि विना प्रार्थनया दत्तानि तथापि यूयं वदथ 'किं दत्तं तव पित्रा ?' एतावत्तु तुष्टो राजापि न दातुं शक्नोति। अतो लोकोक्त्या श्रुयते तत् सत्यं-'जामाता यमश्च न कदापि तृप्यति' । पश्यतु, रत्नैः स्वस्वकान्त्या गृहभूमिर्विचित्रीकृता" । ततोऽप्यस्य मनसि न किमप्यागच्छति । एवं पुनः पुनः सूच्यमानः श्रेष्ठि विचारयति-अहो ! अस्या मुग्धत्वम् ! 'वृथेयं पूत्करोति एवं विवदमानायां स्त्रिायां श्रेष्ठी भोजनादुत्थाय प्रमदाऽभ्यर्णे गत्वोक्तम्-अहो 'मुग्धे ! किं वृथा प्रस्फूलनं करोषि ? कानि तव पित्रा दत्तानि रत्नान्यत्रोद्योतेन यद्दर्शयामि तव पितुरौदार्यभन्। 'तयोक्तम्-आगम्यताम् अपवर्गे उद्द्योतं किं पूत्करोषि ? उयोतितं तु रत्नकान्त्या स्वयमेव गृहम्' । इत्युक्तवा पतिहस्तं गृहीत्वाऽयवर्गे नीतः । पश्यतु भवान्, आवयोः कोऽज्ञः? इत्येवं जायावचः श्रृण्वन् अपवर्गे गत्वा पश्यति, तदा तु रत्नैः स्वस्वकान्त्या विचित्रितं गृहं दृष्ट्वा चमत्कृतचित्तः श्रेष्टी विचारयतिकुत इमानि अदृष्टपूर्वाणि रत्नानि ? | किमिदं सत्यं वा स्वप्नं वा पश्यामि ? । मया तु कोस्थलीकायां पाषाणाः
१. शक्यते प्र०। २. वृथेमा प्र०। ३. मुग्धेऽज्ञे प्र० । ४. अपवरकशब्दो गर्भागारवाची, नतु अपवर्गः, परमत्र सर्वत्रापवर्गशब्दपाठः । गर्भागारेऽपवरको वासौकः शयनास्पदम्। अभि० का० ४ श्लो.६१ ।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org