________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लव:
॥२०६॥
| दशनश्रेणिपरिभ्रष्टमुखम्, अतिजरया गतके शं खल्वाटशीर्ष, विसंस्थुलत्वक्तेजं, परिस्खलद्वचनं, परिभ्रष्ट नेत्रबलं, नाऽतिधवलवस्त्रावृतं, कटिप्रदेशाद् नम्रीभूतं, परिगृहीतहस्तयष्टिकं, स्खलचरणयुगडिगमगायमानम् । ईदृशं स्वरूपं कृत्वा नगरान्तरागता । तत्र परिभ्रमणं कुर्वत्या तस्यैव धनिकस्यावासस्य पाश्चात्यद्वाराङ्गणे स्थित्वा अतिदीनवाण्या जलयाचनं कृतम्। तस्या दैवतप्रभावेण श्वश्रुर्वध्वश्च अर्धपिहितद्वारान्तः स्थिता श्रृण्वन्ति तासां कर्णेषु तप्तत्रपुक्षेपणमिव अतिकटुकं लगति,श्रृण्वतीनां तासां रसभङ्गं करोति। ततोऽतीातोज्वलन्ती श्वश्रुर्वधूप्रत्युक्तवती-'हले! पश्याऽपरद्वारे, क: पूत्कारं करोति?। कर्णकटुकशब्देन प्रजल्पति, श्रृण्वतीनां विघ्नकरं भवति । यद् याचते तद् दत्त्वा इतो द्वाराद् निष्काशय यथा सुखेन श्रवणं जायते । ईदृशं श्रवण कस्मादपि पुण्योदयात् प्राप्तं, पुनर्मिलनं दुष्करम् । लक्षदीनारादपि महा_ इयं घटिका जन्मजीवितसफलकारिका । अत-शीघ्र गत्वा तं विसाऽऽगच्छ' । एवं पुनः पुनः श्वश्रा उक्ते सति अनुल्लङ्घनीयश्वश्रूवचनत्वाद् एका वधूरतिदुष्करकरणामिव मन्यमाना किञ्चिद् बडबुडशब्दं कुर्वाणा धावन्ती अपरद्वारमुद्घाट्य 'अरे रण्डे जरति! किमिदं पूत्करोषि ?। यतोऽमृतपानमिव भवार्तिरोगहरं धर्ममर्मकं वचनं श्रृण्वतीनामस्माकं विघ्नकरा जायसे । किं याचसे त्वं ?" कथय कथय, तद् लात्वा गच्छ गच्छ इतः स्थानात्। एवं श्रुत्वा जरत्योक्तम्-'हे पुण्यवति सुभगे ! धर्मश्रवणफलं तु दया, तां विना तु सर्वं वृथा; अतो दयां कृत्वा मां जलपानं कारय । अहं तृषिताऽस्मि, मम कण्ठस्तृषया शुष्यति' । तया च शीघ्रं जलकलशो भूत्वाऽऽनीतः । कथितं च - 'अरे ! निष्काशय शीघ्रं तव पात्रं, जलं दत्त्वा यामि । मम तु लक्षमूल्या घटिका याति । एकैकम् अस्य वचनं चिन्तामणितोऽप्यधिकं गच्छति, अतो जलं गृहीत्वाऽपसर इतः प्रदेशात्' । जरत्योक्तम्-'भगिनी भाग्यवति ! अहं तु वृद्धाऽस्मि, निष्काशयामि जलपात्रम्' । इत्युक्तवा
॥२०६॥
in Education remational
For Personal & Private Use Only
www.jainelibrary.org