________________
श्रीधन्य
चरित्रम्
॥ २०५ ॥
| कण्ठीकृत शास्त्रपरमार्था लब्धवक्तृत्व - कवित्व - शास्त्रपठनफलमदोन्मत्तास्तेऽपि तत्रागत्य तां वाणीं श्रोतुं लग्नाः । अथ तस्य नवनवोल्लेखशालिप्रतिभापटुत्वेन शब्दभेद-पद्यच्छेद-श्लेषार्थ चित्रालङ्कारादिगर्भितायाः सर्वतोमुख्या गिरः कुशलत्वं दृष्ट्वा मुक्तस्वस्वनैपुण्याभिमानाश्चमत्कृतचित्तास्तां ब्राह्मणवाणीं प्रशंसयितुं लग्नाः- किमयं ब्राह्मणो रूपान्तरिता ब्रह्मणो मूर्तिः ?, किमयम् अनङ्गमूर्तिर्वा ?, किमयं कूर्चालसरस्वती वा ?, किमयं सर्वरसानां मूर्तिवा ?, किमयं वाणीवादिब्रह्मध्वनिर्वा ?, श्रृङ्गारादिसमस्ताऽमृतसतरङ्गिणी वा ? । अहो अस्य चमत्कारकारकं कौशल्यम् !, अहो प्रतिभापटुत्वम् ! अहो अस्य सान्वर्थविविधार्ययोजनशक्तिः !, अहो अस्य शब्दानुप्रासचातुर्यम् !, अहो अस्य एकस्मिन्नेव पद्ये प्रतिपादं रागान्तरावतारणशक्तिः !, | अहो अस्य गतिगहन- गम्भीरार्थं प्रति श्रोतृहृदयावतारण शक्तिः !, अहो अस्य गतोपमानं जगचित्तरञ्जकं रूपम् !, किमपि अनिर्वचनीयशक्तिरचितलीलाविलसितम् !, । मनुष्ये तु एतादृशं सर्वगुणानामेकत्रावस्थानं दुर्लभम् । ईदृशं न क्वापि दृष्टं श्रुतं वा, | अहो ! महाश्चर्यम्' । तथा येऽपि च नृत्यकलासु कुशला रागादिविज्ञानदृप्तास्तेऽपि श्रुत्वा मुक्तस्वस्वाभिमानाः प्रशंसां कुर्वन्ति'अहो अस्य रागादिविनिमयशक्तिः !, अहो अस्य रागावगाहनशक्तिः !' । इत्येवम् अनेकसहस्त्रा लोकाः प्रशंसां कुर्वन्तो विस्मृतस्वस्वगृहकार्या विस्मृतखानपानाः कृतोर्ध्वकर्णाः श्रृण्वन्ति, न कोऽप्यन्यद्वर्णमात्रं वक्ति। गमनशीलस्य कालस्य न कस्यापि शुद्धिर्जाता । एवं कुर्वतां सपादप्रहरो गतः । अथ लक्ष्म्या चिन्तितं मनसि 'अनया तु नगरे गत्वा स्वशक्तिबलेन समस्तलोकानां मनांसि वशीकृतानि, एतावता स्वशक्तिबलं दर्शितम् । अधुनाऽहं तत्र गत्वाऽस्याः शक्तेभ्रंशनं करोमि । इति संप्रधार्य एकं बृहजरतीरूपं कृतम् । तत् कीदृग् ? - जरया सङ्कुचितगात्रं मुख-नेत्रघ्राणविवरेभ्यो यथानुरूपं परिगलद्रसं,
Jain Education International
For Personal & Private Use Only
सप्तमः पल्लवः
| ॥ २०५ ॥
www.jainelibrary.org