________________
श्रीधन्य
सप्तमः
चरित्रम्
पल्लवः
॥२०३||
| स्वभुजोपार्जितवित्तेन निर्वहति, न कस्याप्यधीनोऽस्ति' । एकदाऽपि मम रूपं येन दृष्टं तद् जन्मान्तरेऽपि न विस्मर्यते एव, तव तु पक्षत्रये विस्मर्यते एव, अतो मदग्रे तव मानं कियन्मात्रम् ? । यद्यत्र तव प्रत्ययो न भवेत् तदा गम्यतेऽत्र निकटस्थे श्रीनिवासनगरे, परीक्ष्यते च आवयोमहत्त्वम्" । सरस्वत्योक्तम्-गम्यते एव' । ततस्ते उभे अपि नगरासन्नवाटिकायां गते । अथ लक्ष्म्योक्तम्'त्वमेव वदसि अहमेव जगति महती, तस्मात् त्वमेवाग्रतो नगरमध्ये गच्छ। गत्वा च स्वशक्त्या लोकान् आवर्ण्य स्वायत्तीकुरुष्व । पश्चाद् अहमागमिष्यामि, दृश्यते त्वयाऽऽवर्जिता जना मां भजन्ते नवा?।तत्रोभयोरेकस्या महत्त्वं ज्ञास्यते । ततस्तावत् सरस्वती भव्यम् अद्भूताकार-वस्त्राऽऽभरणादिभूषितं द्विजरूपं कृत्वा प्रविष्टा । चतुष्पथे गच्छता तेन मायाद्विजेन एको महान् आवासो दृष्टः । तत्र कोटीश्वरो धनी परिवसति। तत्र वासे द्वारासन्नप्रदेशे तस्य धनिकस्य सर्वमानोपमम् आस्थानमस्ति। तत्र महाभरणभूषितम् अनेकसेवकवृन्दपरिवृतं भव्यभद्रासने स्थितं श्रेष्ठिनं दृष्ट्वा तेन मायाब्राह्मणेन आशीर्वादो दत्तः । सोऽपि अत्यद्भुतस्वरूपसौन्दर्य-सुवेष-सौम्यादिगुणगणालङ्कृतपुण्यपवित्रब्राह्मणोक्तम् आशीर्वचनं श्रुत्वा, आसनादुत्थाय सप्ताष्टपदानि सम्मुखमागत्य, साष्टाङ्गप्रमाणं कृत्वा, द्वितीयभद्रासने निवेश्य, स्वयमपि च निजासने स्थित्वा, तद्गुणरञ्जितहृदयो ब्राह्मणं प्रत्युवाच-'कुत्रत्या भवन्तो भट्टमिश्राः ?, क्व देशे निवासिनो भवन्तः? किमत्रागमनप्रयोजनम् ?, कस्य पुण्यवतो गृहे उत्तारको भवताम् ?, किं नाम युष्माकम् ?'| इत्यादिधनिकस्योक्तं श्रुत्वा ब्राह्मण उवाच-भो भो-ब्राह्मणप्रतिपालक श्रेष्ठिन् ! अहं काशिदेशे सुधामन्यां वाराणस्यां महापुर्यां षट्कर्मनिरतो वसामि । समस्तशास्त्रे मम परिचयोऽस्ति । धर्मरुचीनां पुराणादिश्रावणवृत्तिरस्मि। अनेकब्राह्मणादीनां वेदादिशास्त्राध्ययनदानं करोमि । तन्नगरेशोऽपि मम भक्तिपूर्व सेवां करोति, गृहिधर्मनिर्वाहार्थ च
॥२०३॥
en Education international
For Personal & Private Use Only