________________
श्रीधन्यचरित्रम्
॥ २०२ ॥
Jain Education I
अनेकानि चाटुवचनानि वचन्ति, असद्गुणारोपणोपमया उत्प्रेक्षया वर्णनं कुर्वन्ति छत्रबन्ध-हारबन्धादिभिस्तद्गुणग्रथनेन स्वचातुर्य दर्शयन्ति, एवं कृत्वा तस्य प्रसत्तिं कुर्वन्ति । एवं कृते श्रीमान् चेत् प्रसन्नो जातस्तदा तु विद्वांसो मनसि हर्षमाप्नुवन्ति, न चेद्, विषादं वहन्ति, पुनरपि च अन्यान्यस्तुतिरूपाणि चाटूनि कुवन्ति । यत उक्तञ्च -
"दृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितै रमीभिः खिन्नः स्यात् धन धननिधीनामपि गुणी | उपायैः स्तुत्याद्यैः कथमपि स रोषमपनयेद्, अहो मोहस्येयं तव भवनवैषम्यघटना !" ॥१॥
तस्मात् त्वदङ्गीकृताः पुरुषा मदङ्गीकृतस्य पुरुषस्य सेवकप्राया भवन्ति । मदङ्गीकृतस्य दोषा अपि गुणतां यान्ति, अतो जगति अहमेव महती । किञ्च, जैनमुनीन् विना प्रायेण ये ये पुरुषास्त्वां तेऽपि च मदर्थमेव । तेषां हि शास्त्रप्रयासः 'शास्त्रविशारदो भूत्वा लक्ष्मीं मेलयिष्यामि इति साध्यसाधनाय । तत्र इहलोके बहुतरा बालास्त्वामनुसरन्ति ते तु गतोत्साहा माता-पित्रादीनां भयेन अध्यापकभयेन वा, परन्तु तवानुसरणं तेषां प्रियं न भवति । ये केचन वृद्धास्त्वामनुसरन्ति तेऽपि लज्जया उदरभरणभयाद्वा प्रच्छन्नवृत्त्या मदङ्गीकृतपुरुषस्य प्रसत्तिकरणार्थ पठन्ति । लोका अपि तेषां हास्यं कुर्वन्ति- 'एतावति वयसि पठनार्थमुत्थितोऽयम्, किं पक्कभाण्डे कण्ठो लगति ?' । संसारस्था जीवाश्च अनादिकालाद् मदनुकूला एव सन्ति । तत्र डिम्भमात्रा अपि मम रूपं दीनारादिकं दृष्ट्वा उल्लसन्ति हसन्ति ग्रहणार्थं करं च प्रसारयन्ति । ततो येऽधिकाधिकवयः परिणतास्ते मां दृष्ट्वोल्लसन्ति तत्र किमाश्चर्यम् ? | यश्च वृद्धो जराविप्लुतो मदर्थमनेकान् उपायान् करोति तस्य न कोऽपि हास्यं करोति, प्रत्युत तत्प्रशंसां करोति- 'वृद्धोऽपि
For Personal & Private Use Only
सप्तमः
पल्लवः
॥ २०२ ॥
www.jainelibrary.org