SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य सप्तमः चरित्रम् पल्लवः ॥२०१॥ अनर्थदायिनी भवति । अधिगतशास्त्रहार्दानां प्राप्तधर्माणां पुरुषाणां तु सा काशयष्टिकल्पा लक्ष्मीर्मुक्तिसुखदायिनी भवति । कथम्? - यो विज्ञः पुरुषः स काशयष्टिं समूलामुत्पाट्य परिकर्मयुक्तोऽन्यान्यक्षेत्रेषु वपति, ततः सा काशयष्टिरिक्षुदण्डरूपा भवति; एवं काशयष्टिरूपां लक्ष्मी यो जिनभवन-बिम्बादिषु सप्तसु क्षेत्रेषु वपति तस्य इक्षुयष्टितुल्यस्वर्ग-मोक्षसुखदायिनी परम्परया भवति, अन्यथा तु अनर्थकारणं समस्त्येव । एवम्भूताऽपिलक्ष्मीर्यदि स्थिरा स्यात् तदा चेत् तत्प्रतिबन्धोऽपि युक्तः, परं सा तु जलधिकल्लोलवचपला । लक्ष्म्यर्थम् अनेके क्षयं गता गच्छन्ति गमिष्यन्ति च, लक्ष्म्या तु न कस्यापि प्रतिबन्धः कृतः पुराणादावप्युक्तम् - लक्ष्मी-सरस्वत्योः संवादः एकदा लक्ष्म्याः सरस्वत्याश्च विवादो जातः । सरस्वत्योक्तम्-"अहमेव जगति महती, यतो मयाऽङ्गीकृता जनाः सम्मानं प्राप्नुवन्ति, सर्वार्थोपायान् विदन्ति । यतः स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते' । तव रूपाणि नाणकादीनि, तेषां शिरस्यहं स्थिता भवामि तदा व्यवसाये व्यवयिसे नान्यथा; अतोऽहमेव महती' । तदा लक्ष्म्या भणितम्-"यत् त्वयोक्तं तत्तु कथनमात्रम्। त्वया कस्यापि सिद्धिर्न भवति, यतस्त्वयाऽङ्गीकृताः पुरुषा मदर्थ शतसहस्त्रशो देशदेशेषु परिभ्राम्यन्ति, मदङ्गीकृतपुरुषस्य पार्श्वे आयान्ति, सेवकवच अग्रे तिष्ठन्ति । उक्तञ्च - "वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः। ते सर्वे धनवृद्धानां, द्वारे तिष्ठन्ति किङ्कराः" ||१|| | २०१॥ Jain Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy