________________
श्रीधन्यचरित्रम्
॥ २०० ॥
असारा, केवलं कर्मबन्धहेतुः । यतोऽनधीतपरमार्थानां संसारिणां लक्ष्मीः काशयष्टिकल्पा यथा काशयष्ट्यास्त्वग्लेश उदरे आयाति | तदा प्राणसन्देहजनकरोगोत्पत्तिर्भवति तथा प्रीत्या लक्ष्मीरिह-परलोकेऽनेकदुःखानि प्रापयति । तत्र इहलोके यत्र लक्ष्मीस्तत्र भयं तु पृष्ठलग्नं परिभ्राम्यति, अनेकविघ्नानि च सम्भवन्ति । यतः -
“दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो, गृहान्ति च्छलमाकलय्य हुतभुग् भस्मीकरोति क्षणात् ।
अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ति हठाद्,
Jain Education International
दुर्वृत्तास्तनया नयन्ति निधनं धिग् बहधीनं धनम् "
||
अतो भवाभिनन्दिप्राणिनां तु इहलोके परमार्थतः क्लेशकारणमेव । यां च लक्ष्मीं सहस्रसङ्ख्यया लक्ष-कोटिसङ्ख्यया ततोऽप्यधिकां वा सञ्चित्य मुक्त्वा च परलोकं गतस्तत्रापि सा पापहेतुरेव । यतः पूर्व मुक्ता लक्ष्मीः पुत्रस्य वाऽन्यस्य हस्ते चटति, | स पुरुषो यानि पापकर्माणि समाचरति तस्य पापस्य विभागो लक्ष्मीसञ्चयकारकः पुरुषो यत्र भवे वर्तते तत्र स्वयमेव अनीप्सितोऽपि आयाति । ‘मदीयम् इदम्' इति कृत्वा पारवश्येन मुक्तत्वाद् अवश्यं पापविभाग आयाति, न तु पुण्यविभागः अननुमतत्वात् । पापं हि पूर्वलिखितऋणपत्रतुल्यम् । लिखितऋणपत्रमस्य ऋणदानं विना व्याजं नोत्तरति, वर्धते एव। पुण्यं तु नवीनव्यापार्यवस्तुग्रहणे हस्तार्पणसत्यङ्कारतुल्यम्। नवीनग्रहणे च यद् जल्पितं तद् लभ्यते, अनुमतिं विना पुण्यविभागो नायाति । अतो लक्ष्मीः परभवेऽपि
For Personal & Private Use Only
सप्तमः
पल्लवः
॥ २०० ॥
www.jainelibrary.org