________________
श्रीधन्यचरित्रम्
मागधो देवीदत्तवरप्रभावेण धनकर्मणो रूपं कृत्वा तद्गृहे गत्वा पुत्रादीन् अभाषत-"अहमद्य शकुनाऽभावाद् ग्रामान्तरं न गतः । ततो व्यावर्तमानोऽहं मार्गे श्रीमदर्हतां धर्म समाख्यान्तम् एकं मुनिमद्राक्षम् । तत्र चाहं मुनिं नत्वोपविष्टः । ततः करुणापरेण मुनिना धर्मसार आख्यातः। तथाहि-"सर्वेषां संसारिणां धनकामना प्रचुरतरा भवति। तस्यार्थं सर्वम् अनिर्वचनीयं कष्टं सहन्ते।
सप्तमः
पल्लवः
यतः -
।। १९९॥
"यद दुर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमथनक्लेशं कृषि कुर्वते। सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं, सर्पन्ति प्रधनं धनाऽन्धितधियस्तल्लोभवि स्फूर्जितम् ||२||
इत्यादिमहाक्लेशमनुभवन्ति । परं सा लक्ष्मीस्तु पुण्यबलेन प्राप्यते, तद् अज्ञात्वा तस्यार्थम् अष्टादशपापस्थानानि समाचरन्ति । तदाचरणेऽपि विना पुण्यबलेन न प्राप्नुवन्ति । तथापि -
४"अज्जंकल्लं परं पुरारंपरिसा चिंतन्ति अत्थसंपत्ति।
अंजलिगयं तोयं व गलन्तमाउंन पिच्छन्ति ॥शा इत्यादिआशाशाकिनीगृहीतास्तदर्थमेव वृथाऽनुधावन्ति । अथ कदापि पूर्वकृतपापानुबन्धिपुण्योदयेन प्राप्ता तदा तदधिकतरमेलने चिन्ता, तस्याः संरक्षणचिन्ता च प्रभवति, परन्तु तस्याः संरक्षणसमर्थे धर्मे नोद्यम कुर्वन्ति । प्राप्ता च लक्ष्मीः
१. गहनाम्। २. युद्धम् । ३. विलासः । ४. अध कल्ये परिस्मन् परतरस्मिन् पुरुषाश्चिन्तयन्ति अर्थ सम्पत्तिम् । अञ्जलिगतं तोयमिय गलदायु पश्यन्ति॥१॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org