________________
श्रीधन्यचरित्रम्
॥ १९७॥
Jain Education In
इत्याद्यनेकसुभाषिता-ऽन्योक्त्यादीनि तत्प्रबोधनाय महोक्त्या पठितानि परं तस्य चित्तं मुद्गशैलपाषाणवद् न किमपि दयार्द्र संजातम् । 'दुःखितोऽहं, बुभुक्षितोऽहम् भूरिकर्माऽहम्' इत्यादिदीनवचनानि विविधाभिनयप्रकारैः कथितानि तदा स धूर्तराष्ट्र श्रेष्ठ तं प्रतारयन् प्राह- 'भो भद्र मागध ! अद्याऽवसरो नास्ति अतो यत् त्वम् अद्य भोजनं याचसे तत् कल्ये ध्रुवं प्रदास्यामि' । एवं धनकर्मणा प्रत्युक्ते सति स मागधः, प्रमोदभाक् तदाशयम् अलभमानो विचारयति - " ममागमनं सफलं तु संजातम् । यतः पणं कृत्वाऽहम् आगतः, अनेन एकदिनविलम्बेन दानमङ्गीकृतं, मूलतो 'नास्ति' इति तु नोक्तम् । वरम्, कल्ये एव आगत्य दानं गृहीत्वा यास्यामि । एकान्तेन हठकरणं याचकजनस्य न भव्यम्" । इति विचारयन् गतः । पुनः प्राप्ते द्वितीयदिवसे तस्य गृहे गत्वा तथैव तम् अयाचत । यदा धनकर्मा प्राह-'भो 'वैतालिक ! किम् आकुलो भवसि ? धीरो भव । मयोक्तं 'कल्ये तुभ्यं प्रदास्यामि' । इत्युक्ते | अदातुः आज्ञादम्भपरिकर्मितेन मागधेन तस्य हार्दं लब्धम् । तथापि विचारितम् - "मम अनेन सार्धं कलहकरणं न युक्तम्, यस्माद् 'अहं प्रसन्नं कृत्वा भोजनं लास्यामि' इति कृत्वाऽहम् आगतस्तस्य हानिर्जायते । अयं पुनः 'कल्ये दास्यामि' इति वक्ति. परं मूलतो 'नास्ति' न वदति । अतोऽस्य पृष्ठे लगित्वा प्रत्यहं मार्गयित्वा इमं श्रमयामि कियता कालेन मां प्रत्युत्तरयिष्यति ? । | अन्तेऽयमेव श्रान्तो भूत्वा दास्यति, लोकलज्जया वा मम कार्यं भविष्यति । पश्यामि पूर्वकर्मणाम् अस्य मम च उदयविलासम्, को | वाऽत्र हारयति !" । इति विचिन्त्य प्रत्यहम् आशीर्वचनमुक्त्वा भोजनं याचते । स तु प्रथमदिनोक्तवचनेनैव प्रत्युत्तरयति । तदा मागधो वदति-'कल्यं कदा भविष्यति ?' । धनकर्माऽऽह-'अधुना तु 'अद्य' वर्तते, कल्यं कुत्र ? अतः कल्ये दास्यामि' इत्युक्त्वा
१. मागध ।
For Personal & Private Use Only
सप्तमः
पल्लवः
॥ १९७॥
Ww.jainelibrary.org