________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लव:
॥१९६
मया रञ्जितः, धनं च गृहीतम् । केनाप्युक्तम्-'अमुकराज्ञो मन्त्री समस्तशास्त्रपारगामी, सर्वेषां वाग्मिनां कषपट्टकः, अनेकानि | बन्दिवृन्दानि बुद्ध्या विजित्य निष्काशितानि, परं धनं न ददाति, सोऽपि गुरुप्रसादाद् मया रञ्जितः, महान् प्रसादश्च लब्धः' एवं परस्परं विवदमानानां केनापि मागधेनोक्तम्-'यद् यूयं वदथ तत्सर्वं सत्यम् । परं तदैव युष्मत्कौशल्यं जानामि यदा लक्ष्मीपुरवास्तव्यधनकर्मणः सकाशाद् एकदिनमात्रनिर्वाहकमपि भोजनं लाथ, अन्यथा तु गल्लस्फुलनमात्रमेव युष्मद्वचः' । तदा स मागधः कलया गर्वितोऽवदत्-'अहो! एतत् किं दुष्करम् ? । मयाऽनेके वजकठोरहृदया रञ्जिताः, कियन्मात्रोऽयं वराक: ? | अस्य पार्थाद् यदा भोजन-वस्त्रादिकं लात्वा दर्शयामि तदा मागधमण्डल्या दानविभागं गृह्णामि, नान्यथा' । एवं होडां कृत्वा धनकर्मणो गृहे गतः । तत्र च सुधामधुरया गिरा धनकर्माणं ययाचे-'भो विचक्षणशिरोमणे ! दातुं कथं विलम्बसे?, यस्माद् आयुषः 'प्रतिभूर्नास्ति, निमेषाघूर्णनबलात् द्राग् 'दीर्घनिद्रां दृगेव सूचयति, अतो दानधर्मे विलम्बनम् अयुक्तम् । यतः - .. "अनुकूले विधौ देयं, यतः पूरयिता प्रभुः। प्रतिकूले विधौ देयं, यतः सर्वं हरिष्यति ॥२||
देहिभ्यो देहि सन्देहिस्थैर्यां मा संचिनु श्रियम् । हरन्त्यन्ये वने पश्य, अमरीसंश्चितं मधु ||२|| विशीर्यन्ते 'कदर्यस्य, श्रियः पातालपवित्रमाः । अगाधमन्धकूपस्य, पश्य शैवलितं पयः ||३|| बोधयन्ति न याचन्ते "भिक्षाद्वारा गृहे गृहे। दीयतां दीयतां दानमदातुः फलमीदृशम्" ||४||
॥१९६॥
१. साक्षी। २. मरणम्। ३. भाग्ये। ४. सन्देहिः स्थैर्य यस्यास्ताम्। ५. कृपणस्य। ६.भिक्षुका इति शेषः।
in Education Intern al
For Personal & Private Use Only
www.jainelibrary.org