________________
श्रीधन्यचरित्रम्
॥ १९५॥
एवमुक्तवा धन्यः स्थितः । तदा ज्येष्ठभ्राता स्वमनसि परिभाव्य व्याचष्ट - 'मम व्याजादिद्रव्यवृद्धिवाणिज्येऽष्टौ हेमकोटयः सदा लभ्याः सन्ति । अथ अद्वितीयमतिर्द्वितीयोऽपि प्राह- 'ममापि सेतुभिः केतुभिर्धान्यकोष्ठागारैश्च धनसङ्ख्या | ज्येष्ठोक्तधनसङ्ख्यानतुल्याऽस्ति' । अथ तृतीयः प्राह- 'ममापि 'वाहानाम् अयुतं हस्तिनां शतं, 'गोकुलानां शतं उष्ट्राणाम् अष्टायुत्यः, महिष्यजायदोऽपि बहुलाः सन्ति, तेषां च मूल्यगणनेऽष्टौ कोटयो हस्ते लभ्यन्ते' । इत्येवं तेषां वचांसि श्रुत्वा भूपतिः, | सभ्याश्च विस्मितचित्ताः शिरो धुन्वन्तो धन्यस्य बुद्धिकौशल्यं वर्णयितुं लग्नाः । ततो राज्ञा ते चत्वारः पृष्टाः- युष्माकं विवादो भग्नः ? निःसन्देहा जाताः ?' । तेऽपि हस्तान् योजयित्वाऽऽहुः - 'स्वामिन् ! त्वं युगकोटिं चिरं नन्द । युष्मदादेशात् पुरुषोत्तमधन्येन बुद्धिलीलया विवादो भग्नः परस्परं प्रीतिलता वृद्धिं नीता, कलहश्च नाशितः । ततो राज्ञा ते महेभ्या विसृष्टा हृष्टचित्ता राजानं नत्वा स्वस्वगृहं जग्मुः । अथ ते धन्यस्य प्रतिभा-भाग्य-कलाहृतहृदयाः सन्तो गृहं गत्वा परस्परं मन्त्रयित्वा रूपलक्ष्मीवतीं स्वस्वसारं लक्ष्मीवतीं कनीं धन्याय ददुः । महामहेन साऽपि परिणीता, चतुर्भिरपि एकैका स्वर्णकोटिश्च दत्ता ।
Jain Education International
इतश्च तस्मिन्नेव नगरे सदा कृष्यादिकर्मासीनमना नाम्ना धनकर्मा वणिक् परिवसति स्म । तस्य पापानुबन्धिपुण्योदयाद् अपरिमितं धनसामासीत्, परन्तु महाकृपणः । तस्य भूयस्यपि लक्ष्मीर्न त्यागाय, न च भोगायाभूत्, नपुंसकस्य स्त्री इव केवलं “वेश्यममण्डनमभूत् । अन्यदा एकः कश्चिद् 'मागधः स्वजातीमागधवृन्दमेलके गतः । तत्र ते स्वस्वबुद्धिकौशल्यं वर्णयितुं लग्ना- । केनाप्युक्तम्- 'मया अमुकदेशाधिपति रञ्जयित्वा धनं गृहीतम्' । अन्येन केनाप्युक्तम्- 'अमुककदेशाधिपतिर्महाकृपणः, सोऽपि १. अश्वानाम् । २. दश सहस्त्राणि । ३. दशसहस्त्रगोसमुदायो गोकुलम् । ४. विपुलाऽपि । ५. गृहभूषणम् । ६. स्तुतिपाठकः - चारणेः ।
For Personal & Private Use Only
सप्तमः
पल्लवः
॥॥ १९५॥
www.jainelibrary.org