________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लव:
॥ १९४॥
च गत्वा स्वस्वदुःखं प्रवचन्तः स्थिताः तत्रापि न्यायनिपुणैश्चतुरैरपि मन्त्रिभिर्यदा कलहो न भग्नस्तदा राज्ञा चिन्तितम्-'अयं कलिः केनापि न भग्नः परं चतुर्बुद्धिनिपुणो धन्य एव स्फोटयिष्यति' । इति संप्रधार्य धन्याय समादिशत् । अमन्दधीर्धन्योऽपि नृपाज्ञया इति प्रोवाच-'भो भद्राः ! युष्मत्पित्रा भव्यं सरलं समानं कृतमस्ति, परन्तु अनवबुध्यमाना मुधा कलहं कुरुथ । यतस्तातस्य वात्सल्यं सर्वेषु तनयेषु समानं भवति, न किमपि न्यूनाधिकं भवति, अतो वो जनकेन द्रव्यस्यांशाः समा एव प्रदत्ताः सन्ति । श्रूयतामत्र हार्दम्-यस्य पुत्रस्य यस्मिन् वस्तुनि व्यवहरणमतेः कौशल्यं 'क्रमते तस्य पुत्रस्य पित्रा शर्मैकहेतु तत्कर्म निरूपितम् । तद् व्यापारक्रियास्थितं द्रव्यं तस्यैव दत्तम् । अत्र वहिकाद्युपलक्षणाद् कलान्तरगतं-व्याजगतं द्रव्यं ज्येष्ठपुत्राय दत्तम्, यतस्तस्यां क्रियायां ज्येष्ठतनय एव निपुणः । इति प्रथमस्य विभागः । यस्य तु सेतु-केतूद्भवा मृद् निर्गता तस्मै तद्वाणिज्यप्रवीणाय द्वितीयाय मृत्सङ्केतसमर्पणाद् धान्यानां कोष्ठागाराणि क्षेत्राणि च दत्तानि । तद्व्यापारगतं द्रव्यं ज्येष्ठपुत्रदत्तद्रव्यतुल्यं भविष्यतीति द्वितीयस्य विभागः । यस्य पुनर्गजाऽश्व-गो-महिष्याद्यस्थीनि निर्गतानि तस्मै गजा-ऽश्वगो-महिष्यादि चतुष्पदधनं तत्रैव 'लब्धलक्षाय तृतीयाय दत्त मिति सङ्केतः । इति तृतीयस्य विभागः । यस्य पुना रत्न-हिरण्यादि निर्गतं स तु अद्यापि व्यापारक्रियाकुशलत्वं न वेत्ति, तेन हेतुना श्रेष्ठिना तस्मै कनिष्टाय रोक्यं धनं दत्तम् । इति चतुर्थस्य विभागः । एवमाशयेन पित्रा तत्तद्वस्तुसङ्केतः सूचितः । अत्र स्वस्वमनसि विचार्यताम्, तत्तत्सङ्केतितव्यापारगतद्रव्यसङ्ख्यानेन सर्वेषाम् अष्टाष्टस्वर्णकोट्यो ददिरे। अतो यदि पितुराशयसूचकस्य मम वचसि प्रामाण्यं भवति तदा स्वस्वमनसि परिभाव्य उत्तरं ददतु"।
१.न प्रतिस्खलति, अप्रतिबन्धे आत्मनेपदम्। २. कुशलाय।
॥१९४॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org