________________
श्रीधन्य
चरित्रम्
पल्लवः
॥१९३॥
न भवेत्। अथ तावद् वृद्धपुत्रस्य नामाङ्किते कुम्भे मषीभाजनं मषी प्रलम्बा वहिकापट्टा लेखन्यश्चालुलोकिरे। पुनः शुभान्तःकरणस्य | द्वितीयपुत्रस्य कुम्भान्तः सेतु-केतूद्भवा महीमृदो दृक्पथं गताः । तृतीयस्य पुनः स्वनामाङ्कितस्य कुम्भस्यान्तः करिणां करभाणां खराणां वाजिनां वृषभाणां च भूरिशोऽस्थीनि दृष्टानि। अथ तुरीयस्य कनीयस्तनयस्य घटान्तरे ज्योति?तितसर्वाशाः सुवर्णस्य अष्टौ कोटयो दृष्टाः । तान् स्वर्णभृतकलशान् प्रेक्ष्य पौरस्त्यास्त्रयः कृष्णपक्षद्वादशीरानेरग्रिमास्त्रियामा इव भृशं श्यामानना विरेजिरे। तुर्यस्तनुजः शातकुम्भभृतान् स्वकुम्भान् वीक्ष्याऽतुषत्, अथवा रोक्यद्रम्माणां लाभे को नरो न हृष्यति ? । कनीयानपि असौ तुर्यस्तया रमया महत्त्वं प्राप्तः, यथा तनीयानपि 'मणिः कान्त्या किम् अर्घ न लभते ? । अथ त्रयोऽपि लोभाज्जातमनःक्षोभा अशोभाकारिभाषिणोऽग्रजाः स्वर्णनिधानस्य भागययाचिरे। तदा कनीयान्ब्रूते स्म-'स्वनाम्नो द्रव्यं न ददामि, मम भाग्याल्लब्धम् अहमेव ग्रहीष्यामि। पापोदयवतां यदि न निसृतं तदाऽहं किं करिष्ये?। को जानाति युष्माकं त्रयाणांमध्ये लोभात् केनापि अपहृतं भविष्यति, अत्र मम किं दूषणम्?, दूषणं युष्मत्कर्मणाम् । इत्येवं विलज्जो लघुर्न तद्भागं ददौ । तदा श्लथस्नेहास्ते प्रत्यहं गेहान्तः क्लेशं व्यधुः । अथ बहुभिर्दिनैः क्लेशेनोद्विग्ना निर्दम्भन्यायलाभाय चतुष्पथं गताः, यथा जलदाः सलिलप्राप्तयै क्षीरसमुद्रं गच्छन्ति। तत्रापि चतुष्पथे मध्यस्था महेभ्यास्तेषां क्लेशवार्ता श्रुत्वा सर्वे दिग्मूढा जाताः, स्वस्वबुद्धिविभवस्य व्ययः कृतः, परन्तु निर्णयोन जातः । ततस्तैः सर्वैरप्युक्तम्-'राजद्वारे महाबुद्धिः, अतो राजद्वारं गच्छत । यतस्तत्र तस्य पराघातोदयबलेन सर्वेऽपि सरला भविष्यन्ति । इत्युत्तरं श्रुत्वाऽप्राप्तसन्न्याया यथा तार्किका भृशं विवदमाना' उपसर्वज्ञं यान्ति तथा ते उपभूपं गताः। राजसभायां
१. सर्वज्ञसमीपम्।
॥१९३॥
in Education Inter
For Personal & Private Use Only
www.jainelibrary.org