________________
श्रीधन्य
सप्तमः
चरित्रम्
पल्लवः
पुरुषाणां यत्र कुत्रापि संमिलनस्वभावेन वसनम् आगतौ श्रेयस्करं भवति। तत्र स्वकीयकुटुम्ब पक्षेतु विशेषतः सस्नेहवसनम् | अत्यन्तश्रेयस्करं ज्ञेयम्, अन्यथा तु विरोधस्य फलं विरोध एव, यशो-धनादीनां वृद्धिर्न भवति, यथा तुषैः परित्यक्तास्तण्डुला अपि न प्ररोहन्ति। किञ्च, मनुष्यो निर्धनैरपि स्नेहलैर्निजैः परिवृतः शोभां लभते, वस्त्रं हि शाण्या अन्तर्धाने कृते हट्टे मूल्यमर्घति। धनपरिग्रहादिमतां गृहस्थानां स्वगृहे निवसतां तावत् प्रताप-धन-गौरव-पूजा-यशः-सौख्य-सम्पद्-ज्ञातिमहत्त्वादीनां | प्रवृद्धिर्जायते यावत् स्वकुले परस्परं कलिर्नोत्पद्यते । राजादीनां मान्यत्वात् परैपरिभूतोऽपि नरः स्वकुटुम्बकलिना स्वल्पैरेव दिनैः क्षीयते, यथा राजमान्योऽपि महाभटो राजयक्ष्मणा स्वल्पैरेव दिनैः क्षीयते तस्माद् भोः पुत्राः ! यदि पुत्र-पौत्रादिपरिवारवृद्धौ कली रोढुं न शक्येत तदा युष्माभिः पृथक् पृथक् स्थेयं, परस्परं च दौ«दं हेयम् । मया च युष्माकं हिताय युष्मन्नामाङ्किताः समविभागाश्चत्वारःकलशाश्चतुर्पु गृहकोणेषु भूमौ स्थापिताः सन्ति। ते पृथग्भवनाऽवसरे स्वस्वनामाङ्किता ग्राह्याः, परन्तु परस्परं क्लेशो न करणीयः, यतस्ते कलशाश्चत्वारोऽपि समानधनाः, तेषु च स्वल्पमपि न्यूनाधिकं नास्ति, यतौ मम स्वाङ्गे इव चतुर्षु समानं वल्लभत्वमस्ति, न क्वापि षक्तिभेदोऽस्ति । इति स्वतनुजन्मनां त्रिविधेन शिक्षां दत्त्वा सत्त्वाधिक; स समस्तजीवान् त्रिविधेन क्षमयित्वा अर्हदादिनां शरणं कृत्वा भवचरमप्रत्याख्यानेन आयुः समाप्तं नीत्वा धुसदां गतिमापत् । अथ तस्यौर्ध्वदेहिकादिमरणक्रियां कृत्वा कृत्वा ततस्तातशिक्षामुपादाय राम-कामादयः स्नेहसिन्धवः सुता एकत्र गृहे कियन्तं समयं | गमयन्ति स्म। तत्र कियत्यपि गते काले पुत्र-पौत्रादि सन्ततिसन्ताने वर्धमाने परस्परं क्लेशंवर्धमानं दृष्ट्वा चत्वारोऽपिपृथक्पृथग्गृहे | तस्थुः । ततस्तैर्हष्टाननैः पित्रा दर्शितेभ्यः कोणेभ्यः स्वस्वनामाश्रिताः कुम्भा आकृष्टाः, यस्माद् बालस्यापि धनप्राप्तौ आलस्यं
॥१९२॥
Jain Education in der
For Personal & Private Use Only
T
ww.iainelibrary.org