________________
श्रीधन्यचरित्रम्
॥ १९१ ॥
यदि धनी बहुद्रव्यव्ययकारी भवति तदा 'उदारचित्तः परोपकारी' इति वदन्ति । यदि पुनः स्वल्पव्ययकारकस्तदा 'अयं | योग्यायोग्यविभागज्ञाता, विमृश्य कार्यकारी, यद् उचितं तत् करोति, बहुद्रव्यत्वात् किं रथ्यायां विकिरेत ?' इति जल्पन्ति । यत् सर्व धनिनां गुणाय भवति तत् सर्व धनरहितानां दोषाय भवति । एते यथा लक्ष्म्या गुणास्तथा दोषा अपि सहस्त्रशो विद्यन्ते, इष्टयोगा इव अनिष्टयोगा अपि किं संसृतौ न हि भवन्ति ? । यतः -
" निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः " ||१|| तथा - "भक्तद्वेषो जडे प्रीतिः प्रवृत्ति' गुरुलङ्घने । मुखे च 'कटुतानित्यं ज्वरीव धनिनां हि यत् ” |२|| इत्याद्यनेकदोषो बह्ननर्थकारी अर्थोऽस्ति, तथापि शरीरिर्भिर्भृशं प्रार्थ्यतेः यथा कृताऽजीर्णादिदोषोऽपि आहारः प्राणिभिः प्रार्थ्यते । नराः श्रिया प्राप्तपरिक्लेशा अपि श्रियम् ईहन्ते, यस्माद् इह जगति वह्निदग्धगृहा अपि वह्नेः स्पृहां किं न कुर्वन्ति ? | |तस्माद् भो पुत्राः ! दोषाकरोऽप्यर्थो गृहिभिर्न त्यक्तुं शक्यः परं श्रीकृते शिथिलस्नेहैर्युष्माभिर्मिथः कलिर्न सेव्यः यत् 'कलिनाम्ना | फलदोऽपि सुखार्थिभिः किलोज्झ्यते । युष्माभिः सर्वदाऽन्योन्यस्नेहतोऽपृथग्भावैः स्थेयम् । यदुक्तं नीतौ- 'समुदायो जयावहः' यतस्तन्तवोऽपि हि संमिलिता गजेन्द्र मपि बध्नन्ति' । यतः -
'भिद्यन्ते भूधरा येन, धरा येन विदार्यते । संहतेः पश्यत प्रौढिं, तृणैस्तद् वारि वारितम्" ॥२१॥
Jain Education International
१. भक्ते - भोजने द्वेषः, (पक्षे ) भक्ते- सेवके द्वेषः । २. डलयोरैक्याद् जले प्रीतिः, (पक्षे ) जडेषु -- मूर्खेषु प्रीतिः । ३. गुरुणां पित्रादीनाम् उल्लङ्घने, (पक्षे ) गुरु यल्लङ्घनम् - उपवासस्तस्मिन् । ४. कटुभाषित्वम् । ५. कलिबिभीतकः ।
For Personal & Private Use Only
सप्तमः
पल्लवः
॥॥ १९१ ॥
www.jainelibrary.org