________________
श्रीधन्य
सप्तमः
चरित्रम्
पल्लवः
॥ १९०॥
'ममोदरे दशत् पतितोऽस्ति' । तथा युवतिरपि तावत् प्रियालापादिकं सहर्ष करोति यावत् पुरुषाद् ईप्सितभूषणवस्त्रादिकं प्राप्नोति । प्रशंसति च -१'मकरध्वजरूपोऽयं मम भर्ता' । अन्यथा तु "स्थाणुरूपोऽयं, पगुमारिकल्पः' इति निन्दति । तथा स्वजना अपि तावत् सज्जनभावं दर्शयन्ति यावद् लक्ष्मीगृहे स्थिरा भवति । तथा नागरिका अपि यावद् धनं तावद् | आदरसत्कारसम्मानं प्रयच्छन्ति। तावत् कलावतां कलाः, विद्यावतां विद्याः, मतिमतां मतयः, गुणवतां गुणाश्च प्रशंसामाप्नुवन्ति यावल्लक्ष्मीगृहे स्थिरा भवति । धनवतां सहस्त्रशो दोषा अपि गुणा एव गूण्यन्ते जनैः । यदि धनी बहुजल्पको भवति तदाऽस्य वाक्पटुत्वं ख्यापयन्ति । यदि भन्दजल्पकोऽस्ति तदा असत्यभयाद् मितभाषी वदन्ति । यदि पुनर्धनी शीघ्रकार्यक्रियाकर्ता तदा 'अयं सोद्यमः प्रमादपरिहारी अनलसः' इति वदन्ति। यदा आलस्येन मन्दकारी तदा "धीरोऽस्ति, 'सहसा विदधीत न क्रियाम्' इत्यादि नीतिवाक्यकुशलोऽस्ति" इति वदन्ति । यदि धनी बहुभोजी भवति तदा लोका वदन्ति-"प्रबलपुण्योदयवान् अस्ति, येन शक्तिद्वयसम्पन्नः कथं न भुङ्कते? । यतः - "भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः। विभवो दानशक्तिश्च अनल्पतपसः फलम" ||१||
इत्यादि स्तुवन्ति । यदि पुनः स्वल्पभोजी भवति तदा 'अस्य मनः सर्वसम्पन्नत्वाद् भृतं वर्तते' इति वदन्ति । यदि धनी वस्त्राभरणादिबह्वाडम्बरेण याति तदा 'अनेन पूर्व प्रबलपुण्यं कृतमस्ति येनः यथाप्राप्तं विलसति, लब्धस्य सारं तद् यद् भोगाय आयति, इति वदन्ति । यदि पुनः किमपि वस्त्राभरणादिकं न परिदधाति तदाऽस्य गम्भीरत्वं धार्मिकत्वं सन्तोषित्वं च वदन्ति। १. कामदेवस्वरुपः । २. शकुरुप।
॥१९॥
Jain Education remational
For Personal & Private Use Only
www.jainelibrary.org