SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् सप्तमः पल्लव: ॥१८८॥ इत्येवं धन्यलिखितं भूर्जपत्रं दास्या दत्तम् । कुमारी तल्लिखितप्रहेलिकाद्वयार्थ वाचयित्वा चित्ते चमत्कृता। अहो ! अस्य बुद्धिकौशल्यम् !' इति मस्तकं धुन्वती पुनरग्रतो वाचयितुं प्रवृत्ता, तदा तत्कृतः श्लोकस्तु वाचितः परन्तु तद्रहस्यं न विवेद । प्रबलेनेहापोहेन मथ्नत्याऽपि तदर्थनवनीतं न लब्धम् । तदा मृगाक्षी महाश्चर्य वहमाना उपधन्यम् आगत्य मानं त्यक्तवा धन्योक्तं श्लोकार्थमप्राक्षीत् । तदा धन्योऽपि ईषद् विहस्य तदर्थमभाषत - 'हे बिम्बोष्ठि ! तदर्थ स्फुटम् ओष्ठपुटं विजानीहि' । एवं सर्वसभ्यजनसमक्षं कुमार्युक्तसमस्यार्थकथनाद् धन्योक्तपद्यार्थस्याऽज्ञानाच पुर्णप्रतिज्ञा कुमारी ज्ञात्वा मन्त्री पुत्रीं प्रत्याह-'हे दुहितः ! तव सन्धा पूर्णाऽभवत्, अतोऽनेन सार्धं प्राणिग्रहणं कारयामि' । मन्त्रिणा इत्युक्ते तयाऽपि पितुर्वाक्यम् अनुमेने, यत ईप्सितं वाक्यं को न मन्यते ? ततो मन्त्री धन्यम् अत्यादरेण सत्कृत्य तयोर्महामहपूर्वकं पाणिग्रहणं कारयामास । इतश्चास्मिन्नेव नगरे द्वात्रिंशत्स्वर्णकोटिस्वामी पत्रमल्लाभिधानो महेभ्यो वणिग्वरः परिवसति स्म । तस्य विनयादिगुणान्विताश्चत्वारः पुत्राः सन्ति । तत्राद्यो रामाभिधानः, द्वितीयः कामनामा, तृतीयो धामाख्यः, चतुर्थः सामसंज्ञकः । तस्यैषां पुत्राणामुपरि एका कस्यापि दोषस्य अनास्पदं समस्तगुणानामेकमन्दिरं प्रत्यक्षा लक्ष्मीरिव नाम्ना लक्ष्मीवती पुत्र्यस्ति एवं समस्तसांसारिकसुखैः सुखितोऽस्ति । आत्मिकसुखलिप्सया च शुद्धदेव-गुरु-धर्मादीन् तीव्रभक्त्या आराधयति । प्रत्यहं साध्वादिपुण्यपात्राणि पोषयति, दीन-हीन-दुःखितजनान् अनुकम्पया उद्धरति, तीर्थयात्रा-रथयात्रा-कल्याणकोत्सवसाधर्मिकवात्सल्यादिषु अतिमात्रम् अर्थस्य व्ययं कुर्वन् पत्रमल्लो दुर्लभं ससामग्रीकं मानुष्यं सफलं करोति स्म । अथ तस्य १. महिषैः। ॥१८८॥ in Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy