________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
॥१८७॥
मीनो लाता गलो देयं कन्ये! दाताऽत्र धीवरः । फलं यजायते तत्र तयोस्तविदितं जने ॥१||
अस्यार्थ ः गङ्गातटे कोऽपि धीवरो मत्स्यवधार्थं प्रवृत्तस्तत्समयक्रियागर्भितेयं समस्या। तत्र धीवरो बडिशकण्टके मांसखण्डं बद्ध्वा मत्स्याय ददाति, तेन धीवरोऽत्र दाता ज्ञेयः, मांसखण्डस्तु देयद्रव्यं ज्ञेयम् । तथा तन्मांसखण्डं लातुं मीनः प्रवृत्तः, अतः प्रतिग्राही मत्स्यः । अत्र क्रियायां तयोर्दातृप्रतिग्राहकयोर्यत् फलं जायते तत्तु सर्वजनानां विदितमस्ति-धीवरो दाता नरकं याति, प्रतिग्राही मत्स्यो नजीवतीति भावार्थः । अथ द्वितीयस्यार्थं श्रृणु सरोवराणां शोभा कं-जलम्। तथा दानिषु अधिकतरो बलराजा, यो मरणावसाने निःस्वत्वाद् ब्राह्मणाय किं ददामीति मनसि खेदं प्राप्तः, तदा ब्राह्मणेनोक्तम्-त्वदन्तविषये स्वर्णमेषिकाऽस्ति तां देहि । तेनोक्तम्-भव्यम् इत्युक्तवा दृषदा दन्तान् पातयितुं प्रवृत्तः । एतन्महासत्त्वं दृष्ट्वा देवः प्रसन्नोऽभूत् । अतः सर्वाधिकदाता बलराजः । तथाऽत्र अर्थग्रहणनिपुणा वेश्या । यतः सर्वकलानिपुणानां धूर्तानामपि धनं स्वाऽर्जनकलया सुखेन गृह्णाति, अतोऽर्थग्रहणनिपुणा वेश्या । तथा मरुस्थल्यां कम्बलवसनाः पुरुषाः, यतो मरुस्थल्युत्पन्नाः पुरुषाः प्रायः कम्पलपरिधानेन निर्वहन्ति।
इति कन्यायाः समस्याद्वयस्यार्थ धन्यो बुद्धिबलेन केलिवत् शीघ्र बुध्वा प्रतिपत्रे लिखित्वा कन्याऽग्रे प्रैषीत् । लिखितं चएको मदुक्तोऽपि श्लोकस्त्वयाऽर्थतो ज्ञेयः । यथा -
"न लगेन्नाग-नारङ्गे निम्ब-तुम्बे पुनर्लगेत् । लगत्युक्ते लगेन्नैव मा मेत्युक्ते भृशं लगेत्" ||२||
**
॥१८७॥
REn
Jan Education in
For Personal & Private Use Only
www.jainelibrary.org