________________
श्रीधन्यचरित्रम्
सप्तमः
पल्लवः
॥१८६॥
| च विस्तृता। अथ ये कियच्छद्व-च्छन्दो-ऽलङ्कारा-दिशास्त्राभ्यासमात्रेण स्वबुद्धिप्राल्भ्यं मन्यमाना गर्वोत्तप्तहृदया अस्मदग्रे सा कियन्मात्रा' इति हदि धारयन्तः परिणयोत्सुका राजपुत्रादयस्ते सोत्साहमागत्य मन्त्रिपुत्रीसरस्वत्यग्रे यद् यद् गूढसमस्यादि पृच्छन्ति तस्य तस्य हार्द सा मन्त्रिपुत्री शीघ्रं विशदरीत्या कथयति, परं न कुत्रापि स्खलति । एवं प्रतिदिनं पाणिग्रहणेच्छवः स्वहृदयकल्पिताऽनेकगत्या ग्रथिताः समस्याः पृच्छन्ति, परन्तु सा कन्या श्रवणमात्रेणैव उत्तरं ददाति, तदा ते विलक्षमुखाः पश्चाद् यान्ति । अथान्यदा सा मन्त्रीपुत्री सरस्वती स्वबुद्धिकौशल्यदर्शनेच्छया नृपं साक्षीकृत्य स्फुरद्गर्वान् सर्वान् पण्डितमानिनः । श्लोकद्वयम् अप्राक्षीत् । यथा -
गङ्गायां दीयते दानमेकचित्तेन भाविना। दाताऽहो। नरकंयाति प्रतिग्राहीन जीवति ॥शा तथा
'का सरोवराण सोहा ? को अहिययरो दाणगुणे जाओ ? |
अत्थग्गहणे को निउणो? मरुधरे केरिसा पुरिसा? || इति प्रहेलिकाद्वयं भूर्जे लिखित्वा एकया दास्या सह प्राहैषीत् । अनयोरथ कोऽपि ज्ञानातिशयवर्जितो न जानाति, ततो जने आबालगोपालं श्लोकद्वयं ख्यातं जातम् । अथ च धन्यो वाचयित्वा सद्यः प्रत्युत्तरं लिलेख -
॥१८६॥
१.का सरोवराणां शोभा? कोऽधिकतरो दानगुणे जातः? | अर्थग्रहणे को निपुणो? मरुधरे कीदृशाः पुरुषाः ॥१॥
in Education
For Personal & Private Use Only