________________
श्रीधन्य- चरित्रम्
सप्तमः
पल्लव:
लग्ना धन्येन समं प्रचलन्ति । एवं समस्तपौरलोकान् विस्मयं प्रापयन् स धन्यो नगरं प्रविश्य दीर्घचतुष्पथेन सारङ्गः सरङ्गैश्च नागरैरन्वीयमानो राज्ञः सभां प्राप्तः । तत 'एतत् किम' इति भूपादिषु वदत्सु उदारबुद्धिर्धन्यो हरिणीकण्ठ पीठाद् हारम् | अग्रहीत्, गृहीत्वा च कन्यकाहस्तो समर्पितः । इत्येवम् अद्भुतं दृष्ट्वा आश्चर्यरससंभृता राजादयः पौराश्च प्रशंसन्ति स्म -
"अहो अस्य गीतकलाकौशल्यम् ! अहो अस्य धैर्यम् !, अहो अस्य सौभाग्यभङ्गी !, अहो ! अनेन अदृष्ट पूर्व मृग-मनुष्याणां निःशङ्ख मेलनं दर्शितम्, 'बहुरत्ना वसुन्धरा' इति वाक्यम् अनेन सार्थ कृतम् । कन्यापि पूर्ण भाग्यवती, यस्या ईदृशी महती प्रतिज्ञा स्वमनोरथानुरूपम् अनेन पूरिता । विधिना एतद् युग्मं युक्तं योजितं चिरं नन्दतु' । अथैवं पार्थिवाऽमात्यप्रमुखैर्जनैरभिनन्दिता सा कन्या अक्षेपं धन्यस्य कण्ठे वरजं चिक्षेप । अथ पूर्णप्रतिज्ञा सा कन्या राज्ञा हर्षतिलकदानपूर्वकं धन्याय द दे। शुभे दिवस-लग्ने तयोः पाणिग्रहणमहोत्सवो जातः । करमोचनवेलायां राज्ञा गज-रथतुरग-ग्रामाणां शतानि दत्तानि । ततो जितारिनृपाग्रहात् सुचरित्रैश्चित्तचित्रकृद् धनसारसूनुः कतिचिद्दिनानि तत्र पुरे राजदत्तावासे तस्थौ। ____ अथ अस्मिन्नेव पुरे सुबद्धिनाम्नो राजमन्त्रिणः पुत्री नाम्ना सरस्वत्यस्ति, सा च सरस्वतीव सर्वविद्यानां हार्दग्राहिणी। यस्याः प्रतिभा सर्वासु प्रहेलिकासु, गूढप्रश्नोत्तरेषु, सङ्केत-समस्यापूरणे च आलस्यं नाऽभजद् । सा बुद्धिचतुष्टयप्रवणा, परन्तु निरालम्बनसाध्यायाम् औत्पातिकीबुद्धा तु अतीव कुशला, अतस्तस्या अभिमानेन तया इति प्रतिज्ञा कृता-'यदुक्तम् अहं न जानामि, मदुक्तं च सर्व यो वेत्ति, स एव मया भर्तृत्वेनाऽनुसर्तव्यः । इत्येवं कुमारीकृतायाः प्रतिज्ञाया वार्ता परम्परया नगरे ग्रामेषु
॥१८५॥
JainEducation in
For Personal Private Use Only