SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सप्तमः चरित्रम् पल्लवः | प्रतिज्ञां श्रृणुतम्-अद्य मया गीतकलया आकृष्टाया हरिण्याः कण्ठकन्दले हारः परिधापितोऽस्ति, अथ यः पुमान् स्वगीतकलया श्रीधन्य- | प्रहर्षितमानसायास्तस्या मृग्याः कण्ठदेशाद्मे हारं ग्रहीता स एव मां परिणेता' । तस्याः सा प्रतिज्ञा सर्वत्र नगरे विख्याताऽभूत्. || यस्माद् अद्भुता वार्ता जले तैलबिन्दुरिव विस्तरतां याति। अथ धन्यो जितारिपुत्रीकृतप्रतिज्ञां जनमुखात् श्रुत्वा चित्ते चमत्कार प्राप्तः सन् सारपरिवारयुतः पौरजनश्रियं पश्यन् उपभूपं प्राप । राजापि तं भाग्यभासुरं समागतं दृष्ट्वा अत्यादरसत्कारपूर्वकं स्वकीयसमासने सहर्ष स्थापितवान् । अथ तत्र मार्गागमनकुशलक्षेमवार्ता कृत्वा स्थितस्तावता सा वार्ता केनापि निष्काशिता। ॥१८४॥ तां च वार्ता श्रुत्वा धन्योऽवक्-'हे महीनाथ ! यदि गीतकलाकृष्टा हरिणी आतोद्यादिशब्दान् श्रुत्वा त्रस्ताऽन्यत्र प्रयाति तदेषा हि अद्भुता गीतकला का ? निष्फलेत्यर्थः । यदा मृदङ्ग-भेरी-भाङ्कारैः अवस्ता गीताकृष्टा मृगी जनसङ्कुलैः आयाति तदा सा गीतकला पूर्णा प्रशंसनीया भवति' । इति धन्योक्तं श्रुत्वा तं च अद्भुताकारं दृष्ट्वा तचातुर्यचमत्कृतः सन् स राजा तन्मृग्यानयने सहर्ष धन्यं न्ययुक्तः । अथ धन्योऽपि तां वार्ता पणीकृत्य वीणां चादाय अनेकगन्धर्वपरिकरयुतो वने प्राप्तः । तत्रैकां वृक्षच्छायां श्रित्वा मधुरस्वरं गीतं गीतवान्, वीणां च स्वर-ग्राम-मूर्च्छनामेलनपूर्वकम् अवादयत् । अथ तद्वनस्था मृगाङ्गना लयप्राप्तेन गीतेन आकृष्टागीतविवशाः सर्वदिशातो धन्योपान्तं उपाययुः । परितो धन्यं वेष्टयित्वा स्थिताः । तासां हरिणीनां मध्ये पूर्व कन्यानिवेशितकण्ठहाराऽपि मृगी गीतवशीकृतचित्ता हृदयेशितुः पुरतः प्रियेव धन्यस्य पुरतो निःशङ्क तस्थौ, तन्मुखं च पश्यन्ती तत्र स्थिता । तत इन्द्रजालकलाशाली लोकैरिव मृगैः समं गायन्नेव नगरसम्मुखम् अचालीत् । तत्राऽनेकैर्लोककृतैः क्षोभैः क्षोभितोऽपि गीतलीनमृगसमूहो ध्यानमग्नहृद् योगीव न चुक्षुभे, सर्वेऽपि मृगा अग्रतः पृष्ठतश्च | ॥१८४॥ Jan Education Interna For Personal & Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy