________________
श्रीधन्यचरित्रम्
सप्तमः पल्लवः
॥१८३॥
अथ सप्तमः पल्लव: अथाऽन्यदा धियां धाम धन्यो मनसि दध्यौ-'यतो मे बान्धवाः पुनरपि पूर्ववद् मयि अप्रीतिचुम्बितं चित्तं मा कार्युः, अतोऽग्रतः सत्वरमन्यत्र 'कामितनीवृतं यामि । परन्तु हीनभाग्यवशात् पुना राज्ञे दण्डनादिदेयं माऽस्तु, इति विमृश्य तान् राज्ञेऽभालयत् । ततः स गजान् अश्वान् ग्रामांश्च विभज्य सोदरेभ्यो हर्षपूर्वकं ददौ । यच गृहसारं सुवर्ण-रत्नादिकं तत्सर्वं जनकाय समार्पयत्। पुनः कौशाम्ब्याम्। उपशतानीकं गत्वोचे-'कस्मादपि कार्यवशाद् राजगृहं यामि, अतो ममेव मत्कुटुम्बस्य भवता चिन्ता कार्या । इत्येवं भूपतिं निगद्य आपृच्छय च धन्यो राजगृहं प्रति अचालीत्। कामिनीद्वयं समादाय सारपरिवारसंयुतो मार्गेऽविच्छिन्नप्रयाणकैः कतिपयदिवसैर्नाम्ना लक्ष्मीपुरपुरम् आप, तत्र पुरे सर्वक्षत्रशिरोमणी राजगुणैरलङ्कृतो जितारिर्नाम्ना नृपतिरस्ति । यत्र परे क्षमात्यागोद्यते भूपतौ शत्रवोऽपि तथाऽभवन् । अथ तस्य राज्ञो गीतकलायाम् अतीव कुशला गीतकलानाम्नी पुत्री आसीत् । अन्यदा सा कुमारी वसन्तोत्सवक्रीडया सखीवृन्दावृता उद्याने गता। सा तत्र लीलान्दोलनजलक्रीडा-पुष्पावचय-कन्दुकोल्लालनादिक्रीडया यूनां मनोविभ्रमकारिणी ग्राम-रागमनोहरं मधुरं गीतम् अगायत् । तस्य गीतमधुरताऽऽकृष्टाः कर्णेन्द्रियपरवशा मृगाङ्गनास्तां परितस्तस्थुः, यथा अद्भुतहाव भाव-विभ्रम-कटाक्ष-रूपवतीं नारी प्रति विवशाः कामुकदृष्टयो भवन्ति । तदा सा कुरङ्गाक्षी कौतुकाद् एकस्याः कुरङ्गयाः कण्ठकन्दले सप्तसरं हारं मुमुचे। सा च सारङ्गिका गीतविरामेऽनेशत् । कुमारी गीतगानं विसृज्य स्वगृहमाययौ । आगत्य च पित्रोरग्रेऽवादीत्-'भोः पितरौ ! ममैकां १. इष्टदेशम्। २. क्षान्तित्यागतत्परे। ३. क्षमात्यागोद्यताः-पृथ्वीत्यजनतत्पराः । ४. हरिण्यः ५. मातापित्रो;।
॥१८
Jain Education in
For Personal & Private Use Only
ww.jainelibrary.org