________________
श्रीधन्यचरित्रम्
पल्लवः
॥१८२॥
लोकोक्तौ हे राजन्! - 'वेधसा जगत्सृजता अरिनिग्रहार्थ चत्वार उपायाः सृष्टाः परन्तु कोऽपि पञ्चमोपायो न सृष्टो येनोपायेन अङ्गनानां मनो निगृह्येत' । मया पुरा एतासां चित्तप्रसत्त्यर्थं जलासारा इव अने के उपकाराः कृताः, परम् अमूषु ऊषरभूमिकावप्तानि बीजानीव व्यर्थतां प्रापुः । अथ याः सुकु लीनाः स्त्रियो भवन्ति ताभिर्बोधिता बन्धवः उन्मार्गप्रवृत्तितटस्थभित्तिभिर्वारिताः सरितां प्रवाहा इव सुश्लिष्टा वहन्ति । तेन कारणेन मयैता मदभेदाय वक्रतानाशाय च 4 अमीभिरुपायैः कृत्वा खेदिताः । यथा सुवैद्येन विषमज्वरनाशाय तनवः शोष्यन्ते तथा मयापि कृतं, नाऽपरं किमप्यस्ति' । इत्यादिप्रीतिवार्ताभिर्धन्येन शतानीको रञ्जितः सन् तद्भाग्याद्भुतचित्रीयमाणचित्तो निजावासमगात् । धन्योऽपि सैनिकैर्मन्त्रिभिश्च श्लाघ्यमानः स्वपुरे आगत्य मुदा मुदितान् मातृ-पितृ-ज्येष्ठभ्रात्रादींश्च नमस्यति स्म। तेऽपि मुदिताशयास्तं प्रत्याशिषं ददुः । ततोऽनन्तरमेव पूर्ववृत्तान्तं पृष्टाः, तेऽपि च यथास्थितमाचख्युः । ततो धन्यो भक्त्या स्वजनकादीन् संमानयन् । राजसु चक्रवर्तीव स्वजनादिषु रेजे । अस्मिन् पल्लवे या सहस्ररमणिपरीक्षा कृता, या च शतानीकतनया परिणीता, पुनः शतानीकाऽनीकभटैः सार्धं युद्धाय प्रगुणो भूतः, सङ्गरार्तिस्थाने स्वजनो मिलितः, एतत्सर्वंदानकल्पद्रुमस्य कुसुमलवलीलामात्रं ज्ञेयम् । तस्माद् भो भव्या ! अहर्निं शंसुपात्रदान्प्रवृत्त्या चिदानन्दघनसुखफलं गृह्णीत।
॥ इति श्रीमत्तपागच्छाधिराजश्रीसोमसुन्दरसूरिविनेय-श्रीजिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्याय-श्रीधर्मसागरगणिनामन्वये महोपाध्याय-श्रीहर्षसागरगणिप्रपौत्रमहोपाध्याय-श्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे L/सौभाग्यमञ्जरीपरिणय-स्वजनसमागमवर्णनो नाम षष्ठः पल्लवः ।।
000000000
Jain Education
For Personal & Private Use Only
S
alu.jainelibrary.org