________________
श्रीधन्यचरित्रम्
षष्टः
पल्लवः
॥१८०॥
च-'हे मातरः ! कातरस्वान्ताः किमर्थम् इहागताः ?' | ततस्ताश्च एनं दृष्ट्वा उपलक्ष्य चेति व्याहरन्-'किमस्मान् मायाभिः खेदयसि? यस्मात् त्वम् अस्माकं देवरोऽसि, सुरद्रुमः कस्यापि दुःखदो भवति किम् ?' इत्युक्त्वा विरतासु धन्यः प्राह-'एष | युष्माकं 'हृद्ये हृदि को भ्रमोऽभवत्, यद्वा गर्तान्तः पातुका अपुण्योदयाद् जातु मन्ददृष्टयः स्युः ? क्षितिमण्डले यं यं धन्याभिधं यूयं द्रश्यथ तं स्वदेवरतया वदन्त्योऽतिहास्यम् आप्स्यथ । ततस्ता ऊचिरे-'हे देवर ! चिरेण त्वमभिज्ञातः, परन्तु मायां कृत्वा त्वं स्वं गोपयसि, तथापि तव पुण्योदयजातं चिह्नं न गोपयितुं शक्नोषि । अतो हे मन्त्रिणः ! अस्य क्रमौ प्रक्षालयामः, यथा पद्मदर्शनाद्भवतां चित्ते निर्णयो भवेत् । अथ तास्तथा कतु लग्नास्तदा धन्योऽवक्-'वयं परमानिन्या सह आलापं नेच्छामस्तर्हि अंहिप्रक्षालनं तु दुरापास्तमेव' । इत्येवं शुचिवाचान्तेधुरि स्थिताः सचिवा इत्थम् अभ्यधुः-'हे साधो स्वामिन् ! मुधा माऽऽयासय, यत इमा भ्रातृजायास्तवैव इति निर्णयो जातः । समर्थानां भवादृशानां सदम्भं विप्रतारेण-विगोपनं स्वगृहे एव भ्रातृजायाभिः सह किम् उचितम् ? आभिस्तु भवद्गुणवर्णनं पूर्वाऽनुभूतं बहुप्रकारैः कृतम्, अधुना तु भवत्प्रवृत्तिमन्यथा दृष्ट्वा अस्माकं मनसि महान् विस्मयो जातः । यतः सज्जनास्तु आने-क्षु-चन्दना-ऽगरु-वंशा इव दृशदादिना ताडिताः पीलिता घर्षिता ज्वालिता श्छेदिता अपि परस्योपकुर्वन्त्येव। सज्जनानांचधुर्यस्त्वमसि तस्य एवं कथं संभवति? । यद्यपि स्वकीयैः स्वमूर्खत्वेन विपरीताचरणं कृतं तथापि तेषां प्रति शिक्षा विपत्काले न कर्तव्या, किन्तु विपदाद् उद्धारः कर्तव्य इति सत्प्रवृत्तिः । सन्तः पतिते पादप्रहारं न ददत्येव, प्रत्युत तस्य साहाय्यदायिनो भवन्ति। परन्तु ज्ञायते यथा काञ्जिकासंसर्गे दुग्धस्य प्रकृतेर्विकृतिर्भवति तथा 'स्वजायया
१.सुस्थे-अभ्रान्ते। २. लक्षितः । ३. परस्त्रिया।
॥१८॥
Jain Education in
For Personal & Private Use Only
MMw.jainelibrary.org