________________
श्रीधन्य
चरित्रम्
॥ १७८ ॥
| इति मन्त्रयित्वा ते सर्वेऽपि मन्त्रिण एकीभूय राज्ञोऽन्तिके गत्वा इति व्यजिज्ञपन्- 'स्वामिन् ! चित्तं स्थिरं कृत्वा, अस्मदीयविज्ञप्तिमवधार्यं पश्चाद् यद् उचितं तद् क्रियताम्' राज्ञाप्युक्तम्- 'तर्हि कथ्यतां युष्माभिः परिभावितम्' । एवं भूपादेशं लब्ध्वा तेऽप्युतुः - "देव ! रङ्कस्य हेतोः स्वप्रतिष्ठां सेवकयुद्धेन मा त्याक्षीः । नीतौ पापबहुलस्य पक्षो न कर्तव्यः पापबहुलस्य | पापोदयेन पक्षकर्ताऽपि ब्रुडति । अपरं च अयं धन्यस्तव जामाता मा तावत् पूज्यस्थानवर्तित्वाद् हन्यताम्. यथा गवा गलित्तं रत्नं किं तस्योदरं विदार्य निष्काशनीयं भवति !! तस्मात् सार्थपतौ हते न कापि अर्थसिद्धिः, न कापि यशोवृद्धिश्च । किञ्च, अयं धन्यः स्वामिन्! त्वया स्वयं वृद्धिं प्रापितो न च्छेदमर्हति यद् दक्षैः स्वरोपितो विषवृक्षोऽपि स्वयं न च्छिद्येत' । अतः कारणाद् हे नाथ ! ठिकरीकृते कामकुम्भस्फोटनमिव त्वया रणः कर्तुं न युक्तः । क एतादृशो भवति यः स्कुटुम्बप्रहाराय लकुटं बिभर्ति ? | अन्यच कदापि इयं धात्री कम्पपात्री भवेत् तथा अमेयजलयुक्तोऽपि जलधिः शुष्कतामाप्नोति, सूर्यस्य पूर्वाऽपरोदयाऽस्तमनव्यतिक्रमो भवेत्, तथापि अयं धन्यः कुपथाध्यानं न गच्छतीत्येवं प्रतीतिर्बालगोपालं यावत् तस्य विरुद्धाचरणं न सम्भवति । अन्यच्च पूर्वमिदं वैदेशिकं कुटुम्बं धन्येन परिपालितम्, अधुना तु साधुनाऽपि अमुना क्रुद्धात्मना वृद्धादयो रुद्धास्तत्रापि किञ्चिद् हार्दमस्ति न तद् ज्ञायते । यतः स्नुषा रुद्धा, वृद्धो रुद्धः, वृद्धा रुद्धा, तस्य त्रयोऽपि तनया रुद्धाः परं एतास्तिस्त्रोऽपि पुत्रवध्वः कस्माद् न रुद्धाः ? तत्र कोऽपि हेतुर्भविष्यति । अतः कारणाद् यदि देव आज्ञापयति तदा गूढोऽप्येष बुद्धिविशेषतः प्रादुष्करिष्यते, यतः सदा तव सेवाकारिणां शास्त्रचक्षुषाम् अस्माकं मन्त्रिणां किम् अदृश्यम् ? बुद्धया दुष्करमपि ज्ञायते । अतो
१. “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसामप्रतम्' इत्युक्तिः ।
Jain Education Inler at on
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १७८ ॥
www.jainelibrary.org