________________
श्रीधन्य
षष्ठः
चरित्रम्
पल्लव:
॥१७७||
सन्तोऽकृत्यं नैव कुर्वते' । अथ धन्योऽपि प्रेष्यवचनं श्रुत्वा तमिति प्राहः-'भोः प्रेष्य ! अहं कथमपि सत्पथं न हन्मि, प्रत्ययू'षे | उदितः श्रीसूर्यः किं लोकालोकं भनक्ति ? न भनक्त्येव । अथ कदाचिद् हेयोत्पथादौ संपातुकः स्यां तदाऽत्र को रोधयितुं प्रवणः?, चक्रिणश्चक्रे चलिते सति कः पुमान् अग्रतो रोधनं कर्तुं समर्थः ? । यद्यत्र भूपस्तप्तिं कर्तुमीहते तदाऽमुमपि शाशितुं समर्थोऽस्मि। यद्ययंभूपः 'शतानीक' इतिनाम्नाख्यातस्तेन हेतुना गर्वितो भवति तदाऽहं लक्षानीकस्य जेताऽस्मि, तत्र शतानीकः कियन्मात्रः?" | इति धन्यमुखैरितानि सगर्वाणि 'परुषवचनानि श्रुत्वा स पुरुषः सत्वरम् उपभूपं गत्वा नत्वा च व्यतिकरं निवेदयामास । भूपोऽपि तस्य सगर्ववचनानि श्रुत्वा क्रुद्धः, यत् प्रेमास्पदं तद् वैरास्पदं जातम् । अथ शतानीको युद्धोद्यतं निजकीयं सैन्यं धन्यमन्दिरे प्राहिणोत् । अथ धन्योऽपि तदागमनं ज्ञात्वा स्वकीयं हस्तिसैन्यम् अश्वसैन्यं पादातिकसैन्यं च मेलयित्वा शतानिकसैन्येन सह तुमुलं युद्धमातनोति स्म। तयोर्युद्धे लग्ने मुहूर्त्तमात्रेण गर्जद्गज-तुरङ्गमं शतानीकाऽनीकं सरित्पूरम् अचल इव धन्यः पराङ्मुखं चक्रे । ते सर्वे सैनिकाः काकनाशं नष्टाः । तदा स्वसैन्यं दीनभावमापन्नं विलोक्य शतानीकः 'पुष्टबलो भूत्वा संस्मयं स्वयं धन्यं जेतुं प्रचेलिवान् । धन्योऽपि तं व्यतिकरं विज्ञाय स्ववेश्मरक्षां विधाय स्वसैन्यमादाय शतानीकस्य समुक्खं प्रतस्थे । क्रमेण तयोमिलने संजाते समरः प्रारब्धः । अथ तयोर्युद्धे लग्ने किंकर्तव्यतामूढा अमात्यगणाः परस्परं मन्त्रयितुं लग्नाः -"अनयोः श्वशुरंजामात्रोर्युद्धे जाते कोऽपि महान् अनर्थो भविष्यति तदा जगति अस्माकं महत्यप्रतिष्ठा भविष्यति, यद् एतयोद्वयोः सैन्ये कोऽपि सुबुद्धिदानकुशलः सन्धिमेलापको नाऽभूत्, येन ईदृशाद् अनर्थाद्न वारितौ' ।अत उपराजं गत्वा किमपि हितोपदेशं निवेदयामः"।
१. प्रातः । २. कठोरवाक्यानि । ३. भूपसमिपम्। ४. शतानीकस्य सैन्यम्। ५. बलवत्सैन्यः । ६. सगर्वम्-क्रियाविशेषणम्।
॥१७७॥
Jan Education
For Personal & Private Use Only
www.jainelibrary.org