SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् षष्ठः पल्लवः ॥१७६॥ 24000+ पुनर्यत्र सुभिक्षा चाऽतीव वर्तते' । इति जनमुखेभ्योऽवगम्य अस्मच्छ्वशुरः सकुटुम्बोऽत्रागतः । यादृशं लोकवार्तायां श्रुतं ततोऽप्येककलयाऽधिकं नगरं दृष्टम् ततोऽस्मच्छ्वशुरेण कञ्चित् सज्जनजनं प्रति पृष्ठम्-'भो महाभाग ! अत्राऽस्माकं निःस्वानां कोऽपि जीवनोपायः समस्ति?'तदा तेनोक्तम्-'अत्र उपनगरस्वामी धन्यनामा सरोवरं कार यति, तत्र गत्वा सरःखननक्रियां कुरुत, सुखेन आजीविका भविष्यति' । इति श्रुत्वा तत्र गत्वा सरःखननक्रियया स्वोदरवृत्तिं कुर्मः । एकस्मिन् दिने धन्यः स्वयं सरो द्रष्टुमागतः" । इत्यादिवत् प्रतिदिनं तक्रार्थं गमनावधिवृत्तान्तः सविस्तरः कथितः । सभ्यजनैः स व्यतिकरो यथाश्रुतो राज्ञे निवेदितः । राजापि असम्भाव्यवार्ता श्रुत्वा सविस्मयो यावचित्ते परिभावयति तावता पुनस्ताः स्त्रियो वक्तुं प्रवृत्ताः - हे देव परदुःखभञ्जक ! भोः करुणानिधे ! सेवकजन वात्सल्याऽमृतकुल्याप्रवाहतो वियोगाग्निगदग्धम् अस्मन्मनोवनं निर्वापयितुमर्हसि । यतोऽनेन धन्येन अस्मद्देवरदारमोहतोऽधुना अस्मच्छवशुरप्रभृतयः पञ्चापि जीवाः किं पञ्चत्वं प्रापिताः?, किं वा दुष्टधियाऽमुना जीवन्त एव कारागारान्तः क्षिप्ताः?, तद्दीनोद्धरणकुशल! तान् संभालय। धन्येन रुद्ध नः कुटुम्बं कृपां कृत्वा मोचय, गजमुखात् त्याजयितुं सिंहाद् अन्यो वन्यः कः समर्थः ? । यतः - "निर्धनानामनाथानां पीडितानां नियोगिभिः । वैरिमिश्चाभिभूतानां सर्वेषां शरणं नृपः" ||२|| इति तासां पूत्करणं श्रुत्वा जातरोषा भूपादयोऽथ प्रेष्यपुरुषेण धन्यायैवम् आज्ञापयन् 'यद् भवादृशानाम् अन्यायकरणमनुचितम्, अतो वैदेशिकान् सर्वान् शी मुञ्चतु । सन् भूत्वा गर्वात् सन्मार्ग किमुज्जसि ? कण्ठगतप्राणा अपि १. सज्जनः । २. त्यजसि। ॥१७६॥ Jain Education ! For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy