SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य षष्ठः चरित्रम् पल्लव: प्रभाते संजाते परस्परं मन्त्रयन्ति स्म-'वयं कुललज्जां श्लथयित्वा कौशाम्ब्यधीशसभायां पूत्कुर्मः, यतो दुर्बलानामनाथानां सर्वेषां पार्थिवो गतिः' । इति ध्यात्वा गतलज्जास्ताः शतानीकसभायां जग्मुः, यतो महापदि क्षान्तिः कस्य भवति?, न कस्याऽपीत्यर्थः ततः सभायां पूत्कुर्वाणाः स्त्रियो दृष्ट्वा राज्ञा सभ्या भूसंज्ञया पृष्टाः – “एताः केन दुःखेन पूत्कुर्वन्ति, एनाः | पृष्ट्वा तासां दुःखस्य हार्दै निवेदयत'। ततः सभ्यजनैस्तिसृणां समीपमागत्य पृष्टम्-भवतीनां किं दुःखं ?, येन सभर्तृकाः | स्त्रियो महादुःखं विना राजद्वारं नागच्छन्ति। विद्यमानेषु भर्तृषु भवतीनां किं महादुःखमापतितं येनाऽत्रा गमनं जातम् ?। अतः स्वीयं दुःखं विशदरीत्या निवेदयत । दुःखव्यतिकरं राज्ञे निवेद्य भवतीनां दुःखं स्फोटयामः । अस्माकं स्वामी परदुःखभञ्जनरसिकोऽस्ति, यस्याग्रे कथयित्वा श्रावणमात्रेण शीघ्र शीघ्रं दुःखं स्फोटयामः' । ततस्ता ऊचुः-"स्वामिनः ! वयं वैदेशिकाः स्मः । पूर्वं तु अस्माकं गृहेऽतुलसुखमभूत्, परं दैवेन ईदृशं दौःस्थ्यं प्रापिताः, यतः कर्मणां गतिरकथनीया भवति । यतः - "अघटितघटितानि घटयति सुघटित घटितानि जर्जरीकुरुते। विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति" || इत्यादि । ततोऽस्मच्छ्वशुरोऽष्टमनुष्यैः सह स्वस्थानाद् निःसृतः । प्रतिग्रामं भ्रमता भवन्नगरख्यातिः श्रुता-'वत्सेशः प्रजा वत्सवत् पालयति । ये केचन निर्धनास्तेषां जीवनोपायबहुलो देशः । यत्र देशान्तरादागता अपि सुखेन आजीविकां कुर्वन्ति।। ||१७५॥ Jain Education For Personal & Private Use Only M M r.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy