________________
श्रीधन्य
चरित्रम्
॥ १७४ ॥
Jain Education Intr
| कुललज्जा मुक्ता तया सह न मे कार्यमस्ति, युवाभ्यां कृतं पापं युवामेव नटयिष्यति' । एवं मात्रा सविषादं धन्यं प्रति उक्तम्, | तदा धन्यः पूर्ववत् स्वगृहे सेवकैर्नीत्वा, पृष्ठतः स्वयं च तत्र गत्वा मातुचरणयुगं ननाम, स्वं च ज्ञापितवान् । साऽपि स्वसुतं धन्यं ज्ञात्वा प्रहर्षितस्वान्ता जाता । धन्येन बहुमानपूर्वकम् अङ्गवस्त्रादिशुश्रूषां कृत्वा गृहे स्थापिता । पुनर्धन्यो गवाक्षे गत्वा स्थितः । अथः त्रयोऽपि वृद्धभ्रातरः पित्रोर्विशुद्धये आययुः । आयुष्यमता धन्येन तान् इतस्ततो भ्राम्यतो दृष्ट्वा, सेवकैरावासान्तरं नीत्वा स्वयं तत्र गत्वा जवाद् नताः। ततो वस्त्राभरणताम्बूलादिभिः सत्कृत्य, देहान्तः सद्गुणा इव स्वगेहान्तः अनेन स्थापिताः, प्रमोदं च प्रापिताः । तदनन्तरं महत्यां वेलायां गतायां तेषां त्रयाणां स्त्रियः श्वश्रूश्वशुर-भर्तृविशुद्धयर्थम् आगता धन्येन दूरतो दृष्टाः । दृष्ट्वा च चिन्तितम् - 'आभिर्निरवद्यां मम प्रियतमां प्रति अलिकानि दूषणान्युद्भाव्य सा बहुतरं निन्दिता, बहुभिर्दुर्वचनैर्हेलिता खिंसिता च, अतः किञ्चित् शिक्षां ददामि'। इति संप्रधाय ततो भ्रूसंज्ञया संज्ञितैर्द्वाःस्थैः प्रविशन्त्यो वारिताः । नगैर्वारितं सरिद्वारि यथा परितः परिभ्राम्यति तथा ता अपि राजद्वाराद् बहिरितस्ततः परिभ्राम्यन्ति । एवं शेषदिनं यावद् भ्रमणं कृतं परं मध्ये प्रवेष्टुं न प्राप्ताः। धन्योऽपि च दूरतो दर्शन मात्रेण द्वाःस्थान् संज्ञयित्वा गवाक्षाद् उत्थाय आवासान्तर्गतः । सन्ध्यायां निराशा भूत्वा | दुरवस्थां प्राप्ताः शोकार्ता विखिन्नाः सत्यः स्वनिवासकुटीं गत्वा विलपितुं लग्नाः - 'हे मातर् उर्वि ! अस्माकं पातकृते विरं ददस्व, | यत्र वयं दुःखदवविवशाः प्रविशामः । न कोऽप्यस्माकमबलानामाधारो यस्याश्रयेण जीवामः' । इति विलापान् कुर्वाणा इलालुठनलालसा अनेककुविकल्पकल्पितान्तःकरणाः त्रियामामपि तदा शतयामामिव अतिदुःखेन 'अनैषुः । अथ कथमपि १. वाहिता
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १७४ ॥
w.jainelibrary.org