SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् षष्ठः पल्लवः * यथारुचि कुरु"। इत्युक्त्वा ते सर्वेऽप्युत्थाय स्वस्वगृहे जग्मुः, यतः परार्थे कः क्लेशं करोति ? | धनसारोऽपि निराशो भूत्वा पश्चाद्वलितश्चिन्तयति-'अधुना यद् भाव्यं तद् भवतु, एकवारं धन्याग्रे स्वयं गत्वा पूत्करोमि, हृद्गतं बाष्पं निष्काशयामि । किं करिष्यति मां क्रुद्धोऽयम् ?, हनिष्यति तु हन्तु, हृतप्रायस्तु जातोऽऽस्मि, किं जीवितव्येन ?' | इति संप्रधाय स्वयं गत्वा गवाक्षस्थं धन्यम् उच्चैरभाषत-भो महाभाग ! एनां वधू विमुच्च, केनापराधेन अस्मत्पुत्रवधू रक्षितास्ति? | समर्थो भूत्वो किमस्मान् वराकान् पीडयसि ? । इति भूयम् अवधूय निःशङ्कं यावता वधूं याचते तावता धन्यो भूसंज्ञया भटानाह-'किमप्ययं याचते, अथ चैनगृहमध्ये नीत्वाऽर्प्यताम् । तदा भटैरुक्तम्-'भो वृद्ध ! चलतु आवासान्तरे, दास्तव वधूम्' । इति कृत्वा धनसारमावासान्तरं निन्युः । अथ धन्योऽपि गृहान्तरमागत्य सहसा पितरमानमत् । नत्वा च सादरां कराञ्जलिं कृत्वा इति जगाद्-'तातपादैर्मम बालचापल्यविजृम्भितं क्षन्तव्यम्' । इति सुधानुकारां धन्यगिरं श्रुत्वाऽथ धनसारः पुत्रदर्शनाद् अतर्कितप्राप्तमनोरथ आनन्दाद्भुताक्रान्तो जातः । युक्तोऽयमर्थः - अर्णवश्चन्द्रालोकनत उत्कल्लोलः कथं न स्यात् ? स्यादेव । ततः सबहुमानभक्तिपूर्वकं समस्तार्तिरहितस्तातमावासान्तः स्थापयित्वा गूढाभिप्रायं धारयन् धन्यः पुनर्वातायने गत्वा स्थितः पश्यति, तावता दुःखोपतापितस्वान्ता धन्यमाता भर्तृवशुद्धये धन्यगृहं प्राप्ता । धन्यं गवाक्षस्थितं दृष्ट्वा सविषादं हृद्गतं जगाद-'भोः क्रूरकर्मन् ! मम निस्तुषाचारां स्नुषां यदि त्वं नैव मुञ्चसि तदा तया समम् रेणुवद् दूरे गर्तायां पत, यदि वा रोषितो वा त्वं किं करोषि ?, परं एकं मम पुनर्जरया जर्जरं भर्तारं समर्पय । तस्याः पृष्ठे धूलिदत्ता दीर्घपथं यातु । यया १.पवित्राचाराम्। ॥१७३॥ sain Education and For Personal & Private Use Only Iw.ainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy