________________
श्रीधन्य
चरित्रम्
षष्ठः पल्लवः
॥१७२॥
नास्ति, दूषणं ममैवास्ति, यतो मया नगरजनानां कर्णवारा मुक्ताः सन्ति, तेन ते उन्मत्ता जाताः सन्ति । अतो कियत्यपि दिनमध्ये सरलतां भजमानान् करिष्यामि' । इत्यादितिरस्कारगर्भा वक्रोक्तिं श्रृण्वाना इङ्गिताकारैः अरुचितम्' इति ज्ञात्वा | सभयं चाटूनि वचनान्युक्त्वा ते सर्वे शनैः शनैः समुत्थाय राजद्वारा निर्गताः । धनसारोऽपि बहिरागत्य महाजनानामग्रे वक्तुं प्रवृत्तः - 'यूयं सर्वेऽपि समुत्थाय स्वस्वगृहे गन्तुं प्रवृत्ताः, परं मत्कार्यस्य का गतिः ?' | तदा ते सर्वे धनसारं प्रति सरोषम् उत्तरं दातुं प्रवृत्ताः - "भो जठर ! पुरा त्वया स्वयमेव कार्यं विनाशितम्, अधुनाऽस्मदग्रे किं पूत्कारं करोषि ? । मूर्योऽपि कोऽपि यादृशं कार्य न करोति तादृशं त्वया कृतम्, यतः प्रत्यहं सुरुपा प्राप्तयौवना स्नुषा तक्रमात्रार्थं राजद्वारे प्रेषिता। महत्कार्य विना व्यापारिणः पुरुषस्यापि राजद्वारगमनं न युक्तम्, स्त्रीणां तु सर्वथैव गमनमयुक्तम्, तत्तु त्वया न ज्ञातम् । भो जरद्गव ! त्वया इयदपि न ज्ञातं यद् अन्या वधूर्गच्छति तदा जलबहुलं तर्क लाति, यदेयं याति तदा तु मथितं दुग्ध-मिष्टान्नादिकं च लाति तत्र किमपि कारणमस्ति; यद् अनया सह न कश्चित् सम्बन्धः, न कश्चित् पूर्वपरिचयो वाऽस्ति, केन हेतुना भव्यतरं ददाति ? ।परिपक्वसुजातफलं रक्षकं विना अखण्डितं तिष्ठति किमु ? | धर्मशास्त्रेऽप्युक्तम्-'मूषकाणां मार्जारदृष्टिवर्जनमिव कुलवतीनां युवपुरुषदृष्टौ गमनागमनं प्रायेण विघ्नकरं भवति, अतो दृष्टिवर्जनं कार्यम् । यथा सुरूपाणामकाणां शाकिन्यग्रे | खेलनमिव रूपवतीनां युवपुरुषस्याग्रे स्फुरणं दुःखाय भवति । तत्त त्वया किमपि न विचारितम् । परम् अधुना किमस्माकमग्रे पूत्करोषि ? | षष्ट्यब्दे जाते बुद्धिर्विनष्टा' इति लोकोक्तिस्त्वया । सत्यीकृता त्वदर्थं किं वयमपि सङ्कटे पतिष्यामः? । यद्
| अस्माकं कर्तव्यं भवति तत्तु कृतम्, राज्ञा नाऽवधारितं, तत्र वयं किं कुर्मः ? । त्वदीयकर्मणो दोष । अतः परं वयं न विद्मः, |
॥१७२॥
in Education Internal
For Personal & Private Use Only
Sirww.jainelibrary.org