________________
श्रीधन्यचरित्रम्
पल्लवः
॥१७॥
सिन्धुर्मरुवद् निर्जलो भवेत्, नित्यं चलोऽपि वायुः स्थिरत्व माप्नुयात्, कदापि पृथिव्याम्, अग्निरपि हिमवच्छीतलो भवेत्, परं न पुनः कथमपि एष भवान् लोभविक्षोभवान् भवेदिति प्रत्ययोऽस्त्यस्माकम् । तथापि अयं धनसारः पूत्कारं कुर्वन् आगतो यद् 'अद्य अस्मदीयपुत्रवधू राज्ञा रुद्धाऽस्ति' । इति अस्य गिरं श्रुत्वा न केनापि मानितं, परन्तु अस्य दुःखार्तस्य दुःखं दृष्ट्वा सर्वैरपि परिभावितं यद् अस्माकं स्वामी कल्पान्तेऽपि ईदृशं न करोति, परन्तु केनापि भवदीयसेवकेन ज्ञात्वाऽज्ञात्वाऽस्य धनसारस्य स्नुषा रुद्धा भविष्यति। अतः स्वामिन् ! धनसारोपरोधेन विज्ञप्यसेऽस्याः शुद्धिं कारयतु । न ज्ञायते केनाऽपराधेन रुद्धाऽस्ति? अस्य वराकस्य स्नुषा यदि अपराधवती भवेत् तथापिक्षान्त्वाऽस्य महाजनस्य शोभां दत्त्वा मोचयतु भवान्। किं बहु विज्ञापयामः? स्वामिन् ! स्वयमेव युक्तायुक्तविचारकुशलोऽसि। भवदग्रेऽस्मबुद्धिः कियत्परिमिता? । अतः शतवार्तायाम् एकवार्ता-महाप्रसाद कृत्वाऽस्य वधू दापयतु' । इत्येवं महाजनवृन्दस्य वचः श्रुत्वा ईषत् स्मितं कृत्वा अनाकर्णितमिव अन्यत्र दृष्टिं दत्त्वाऽन्येन सह अन्योक्त्या तिरस्कारसूचिकां रोषगर्भा वार्ता कर्तुं प्रचक्रमे "भो अमुक ! अधुनाऽस्मिन्नगरे जना वाचाटा बहवो जाताः सन्ति। सत्यासत्यविभागम् अजानन्तोऽपि वावदूकाः परगृहतप्तिं कुर्वाणा यथा तथा वाक्यानि प्रलपन्ति, यतो दुर्जनानामयमेव-स्वभावः । यदुक्तम् - आत्मनो बिल्वमात्राणिस्वच्छिद्राणि न पश्यति। राजिकाकणमात्राणि परिच्छिद्राणि पश्यति" ||२||
परन्तु तान् स्वान् अहं वेद्मि। साम्प्रतं तेषां शिक्षा कर्तुमुद्यतोऽस्मि, किंबहुना?, वरं-भव्यं भविष्यति!। परम् एतेषां दूषणं १. वायुवत्। २. समुद्रः । ३. वायुवत्। ४. राजिका कृष्णसर्षपः ॥
॥१७१॥
in Education
For Personal & Private Use Only
law.jainelibrary.org