SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् षष्ठः पल्लवः ॥१७०॥ बालगोपालं यावद् धन्यो परनारीसहोदरबिरुदवाहकः प्रसिद्धोऽस्ति, तस्य ईदृशं करणं कथं संभवति ?' | पुनरन्यैः सभ्यजनैः स्वप्रतीतिकरणाय धनसारः पृष्टः, स च तथैव अन्यथावृत्तं निगदितवान् । तदा ते सभ्याः परस्परं प्रवृत्तिं कर्तुं लग्नाः - 'नाऽयं वृद्धोऽलीकं वक्ति, यतोऽयम्, अन्तरङ्गदुःखज्वालाभितप्तो वदति अतः सत्यमेव जल्पन् उपलक्ष्यते, अयं त्रिधा दुःखैः संतप्तो वदति । यद्वा ईदृशं राजकीयमसत्यं चतुष्पथे वक्तुं कः प्रभवति ?, विनाऽन्तरङ्गदाहं न ब्रूते, अतो वृद्धः सत्योऽस्ति' । तदा ते सर्वेऽपि व्यवहारिणः किंकर्तव्यतामूढाः सन्तो धनसारं प्रत्यूचुः-"भो वृद्ध ! वयमत्र किं कुर्महे ? । यस्य कस्यापि वार्ता कथयामः स राज्याधिकारिणामग्रे कथयति, न च मन्यते, प्रत्युत उपालम्भं दत्ते-'किं भवतां मतिर्विनष्टा यद् एवं बूध्वम् ?' । अथो विषमम् आपतितं दुःखं श्रोतुमपि न शक्नुमहे, तस्माद् यद् भावि तद् भवतु, न्यायवेधसे धन्याय कथयिष्यामः इयं कुनीतिर्भद्रकरा न, अद्य तु अनेन वराकरय स्त्री रक्षिता, कल्येऽन्यस्यापि रक्षिष्यति । यः कोऽपि दुष्टो राजा भवति स प्रजानां धनादिवस्तु गृह्णाति, न तु प्रणयिनीम् । एवं महाऽनीतिं कुर्वतो ग्रामे कः स्थास्यति?" । इति मन्त्रयित्वा सर्वेऽपि एकत्र मिलित्वा धन्यवेश्मनि गत्वा धन्याय प्रणामादिकं कृत्वा यथास्थानं स्थिताः । ते सर्वेऽपि भयवेपिताश्चिरं विमृश्य गिरं प्राहुः - "स्वामिन् ! यथा, सूर्योत्सने तमःप्रसरो न भूतो न भविष्यति, महार्णवे उड्डीयमानं रजो न दृष्टं न च द्रक्ष्यते, 'सितरश्मिन कदापि तापप्रदो जातो न जनिष्यति च, तथा त्वयि अनीतिर्न भूता न भविष्यति चेति त्रिधा प्रत्ययोऽस्त्यस्माकम् आबालगोपालं च । कदाचिद् रविः पश्चिमायाम् उदयं समायायाद्, ध्रुवोऽपि कल्पान्तपवनप्रेरितः कदापि अध्रवतां दध्याद्, मेरुरचलोऽपि कदापि 'मरुद्वत् चलो भवेत्, कदापि १. चन्द्रः । ॥१७॥ Jan Education r ational For Persons & Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy