SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य षष्ठः चरित्रम् पल्लव: ॥१६८॥ उभयोश्चित्तप्रवृत्तिर्विनष्टा, परन्तु अत्र किमपि वातान्दोलिकेतुप्रान्तवद् विपरीतं जातम्" । इति शङ्काशकुसङ्कुलस्वान्तः श्रेष्ठी वृद्धपुत्रवधू प्रति जगौ-'वत्से ! त्वं तत्र तस्य गृहे गत्वा विलोकस्व, सा केन विघ्नेन विघ्निता स्थिता?' । तदा धनदत्तस्य वधूस्तक 'दोहनी हस्ते लात्वा धन्यगृहाङ्गणे गत्वा तत्रत्यान् मनुष्यान् अपृच्छद् यद्-'अस्मद्देवरपत्नी तक्रार्थमागच्छति सा आगताऽस्ति नवा?" | इति प्रश्न गुह्यम् अजानन्तस्तेऽप्यूचुः- अहो ! तस्यास्तु महान् भाग्योदयो जातः । मध्ये गत्वा विलोकय, सा तु गृहस्वामिनीव जाता तिष्ठति । इति श्रुत्वा चिन्ता-ऽऽर्ति-भय-विस्मयसङ्करस्वान्ता पूर्वगमनाभ्यासवशाद् आवासन्तर्गता, तावता दूरतस्तस्या अपूर्वां तथावस्थां वीक्ष्य शिघ्रं तत्रतो ववले । स्वस्थानमागत्य सर्वेषामप्यग्रे यथादृष्टं कथयामास । ते सर्वेऽपि धनसारम् उपालम्भयामासुः- "हे वृद्ध ! इदं तवैव दूषणम् ! यतो दधि- दुग्धादीनां लोभेन प्रतिदिनं तस्या एव प्रेषणम्, 'अन्यास्तु स्वच्छजलवत् तक्रं लान्तीति ता निर्भाग्या मूर्खाः । इयं मम पूत्रवधूः पुण्यवती दक्षा भाग्यशालिनी कीदृशं भव्यं भव्यतरं लाति!। परं न विचारितं यत् कर्मकरवध्वै अत्यादरेण दधि-दुग्ध-सुखभक्षिकादिकं केन कारणेन ददाति ? । नास्ति कोऽपि पूर्वपरिचयः, न कोऽपि वा सम्बन्धः, न किमपि च अस्मदधीनं कार्यकरणमस्ति । चेद् यदि वृद्धस्यानुकम्पया ददाति तदाऽऽन्यासां वधूनामपि दद्यात्, तत्तु नैव, अस्या एव भव्यं ददाति; अतो निपुणेन सूक्ष्मेक्षिकया विचारयितव्यम्, अत्र किमपि कारणमस्ति' इति अग्रत एव मनसि आलोच्य यथायोग्यमकरिष्यत् तदा एतद्विषमं नाऽभविष्यत् । एतावत्तु सर्वजनविदितम्-रूप-यौवनवतीनां स्त्रीणां राजकुले गमनागमनम् अयुक्तम्। अतिपरिचयादवज्ञा' इति लोकोक्तिरपि न संप्रधारिता। अतो वृद्धस्यैव मूर्खता" । पुत्रादीनाम् १. यत्र तक्रादि क्षिप्यते तत्पात्रम्-भाषायां 'दोणी' । L॥१६८॥ Jain Education For Personal & Private Use Only M ainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy