________________
श्रीधन्यचरित्रम्
॥ १६६ ॥
Jain Education Inter
प्रलपसि । यथा नाम्ना मङ्गलोऽपि उर्व्यां वक्रगतौ अमङ्गलकारी एव स्यात्, ततो नाम्ना रञ्जनं व्यर्थ, गुणै रञ्जनं तु सार्थकम् । भोः ठक्कर ! नूनं भवान् परस्त्रीसङ्गमाभिलाषेण एतद्वैभवाद् यशसश्च भ्रंशिष्यति, यतः फणिमणिग्रहणाभिलाषुकः कः सुखितो |भवेत् ? । मच्छीललोपे तु इन्द्रोऽपि न 'इष्टे तत्र भवाँस्तु कियन्मात्रः ?, और्व क्षपयितुं समुद्रो नेष्टे तर्हि प्रोन्मत्तो नदः किं करोति ? । तस्मात् कुपिकल्पं मुक्त्वा सुशीलतामनुसर" । इत्येवं क्षपितकलिमलसाधोश्चेतनाया इव तस्या अतिविशुद्धतां दृष्ट्वा ३परमात्मेव स धन्योऽनिर्वाच्यम् अमन्दमानन्दमविन्दत' । ततः सातिशयहर्षः स धन्यः सुधामुधाकरीं वाचं सुभद्रां प्रति अभ्यधात्'हे भद्रे ! परस्त्रीलोलुपोऽहं नाऽस्मि, ततस्त्वया न भेतव्यम् । इदम् आलपाललपनं तु वचनमात्रेण तव सत्त्वपरीक्षणाय । अत्र यन्मया विरुद्धमुक्तं तत्पुनस्त्वया क्षन्तव्यम् । त्वं धन्याऽसि, यत ईदृशी दुःस्थाऽपि स्वव्रतम् अखण्डं परिरक्षसि । परन्तु एकं प्रश्नं | पृच्छामि त्वं स्वभर्तारं कथं वेत्सि ? दृक्पथागमनमात्राद्, कुतश्चित् सङ्केताद् वा, रहः कृतवार्ताकथनाद् वा अङ्गप्रत्यङ्गगतमशतिलका-ऽऽवर्तादिलाञ्छनविलोकनाद् वा ?' । इत्येवं धन्यवचः श्रुत्वा सा प्राह- यो हि मम स्वनिकेतनगतान् परैरज्ञातान् पुराऽनुभूतान् स्फुटान् सङ्केतान् वक्ति स मम भर्ता, नात्र सन्देहः' । तदा धन्यो वक्ति-"एकं तावद् ममोक्तं श्रृणु-दक्षिणायां दिशि प्रतिष्ठाननगराद् धनसारव्यवहारिसुतो नाम्ना धन्यो स्वबन्धुत्रयकृतक्लेशाद् उद्विग्नचित्तो देशान्तरं प्रति गतः । लक्ष्म्युपार्जन मोचन - क्रमेण राजगृहनगरं प्राप्य तत्र स्वपुण्यप्राबल्योदयेन कन्यात्रयमुपायंस्त, वाणिज्यकलाकौशल्यबलेन च अनेक कोटिस्वर्णमुपार्जयत् । एवं कियत्यपि गते काले “सनालीकान् गतश्रीकान् सङ्गतान् बान्धवान् वीक्षणमात्रेण भास्वानिव निर्विकारः
१. समर्थो भवति । २. बडवानलम् । ३. परमयोगी-केवली । ४. अलभत। ५. सशल्यान् ।
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १६६ ॥
Ww.jainelibrary.org