SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् षष्ठः पल्लवः ॥१६५॥ भविष्यन्ति' इत्याशया तिष्ठन् कालं निर्वहति, तथाऽहमपि" धन्योऽभ्यधात्-'हे मुग्धे ! मुधा यौवनं किं नाशयसि ? यौवनं हि मनुजभवसारं, तत्तु त्वं वृथा गमयसि । यतः - 'बुधः करस्थताम्बूलमभुक्त्वा न हि शोषयेत् यत् दूरदेशान्तरगतस्य आगमनाऽऽशामपि रक्षसि तदपि वृथा। यदि त्वं तस्य प्रियाऽभविष्यत्, तदा त्वां प्रति किमपि संकेतादिकं कृत्वाऽगमिष्यत्, परंस तु निर्मोकं मुक्त्वा भुजङ्गवद् गृहाद् उद्विग्नो भूतो गतो भविष्यति, तस्य पुनरागमनाऽऽशा वृथा । अतो विकल्पजालं मुक्त्वा मां प्रपद्यस्व । इह जगति दुर्लभा भोगा भुज्यन्तां, गतं वयो न पुनरभ्येति, अतो मां पतित्वेन प्रतिपद्य इमां दुर्दशां प्रवासिनीं कुरुष्व'। एवं वज्रपातसोदरवचांसि श्रुत्वा भयभीता सुभद्रा पाणिभ्यां को पिधाय इत्यभाषत-भो दुर्बुद्धे ! किं तव कुलजानां स्त्रीणां रीतिः कदापि श्रवणपथेऽपि नागता, यत एवं प्रलपसि ? । यदुक्तम् "गतियुगलकमेवोन्मत्तपुष्पोत्कराणां, हरशिरसि निवासःक्ष्मातले वा निपातः। विमलकुलभवानामङ्गनानां शरीरं, 'पतिकरकरजो वा सेवते सप्तजिह्नः ||१|| सुकुलप्रसूतानामङ्गनानां शरीरस्य धत्तूरपुष्पवद् द्वे एव गती । यथा धत्तूरपुष्पं शिवमस्तके चटति वा भूमौ पतति, नान्यमुपयोगमर्हति, तथा पतिव्रतास्त्रीणां शरीरं पतिकरस्पर्शोपभोग्यं वा हुतभुजो ज्वालोपभोग्यं भवति, नान्यस्य । तस्माद् भो ग्रहग्रस्त ! त्वं नाम्ना धन्य इति कथ्यसे परं गुणैस्तु अधन्य एव दृश्यसे !, यतस्त्वं बहूनां नायको भूत्वा ईदृशानि विरुद्धवाक्यानि १. कञ्चुकम् । २. भर्तृहस्तनस्त्रः । ३. अग्निः । ॥१६५॥ Main Education For Personal & Private Use Only voww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy