________________
श्रीधन्यचरित्रम्
षष्ठः
पल्लव:
॥१६४॥
मम श्वशुरो निर्गतो बहूनि ग्राम-पुर-नगराणि भ्रामं भ्रामं इहागतः । तव भर्ता सरःखननप्रवृत्तिं कारयतीति वार्ता श्रुत्वाऽत्रागत्य स्वोदरपूरणकृते सरः खन्यते। हे सखि ! दुःस्थितस्य जठरभरणाय किं किं न कर्तव्यं भवति? । यतः - 'प्रमत्ताः किं न जल्पन्ति किं न कुर्वन्ति निर्धनाः ?' | सप्तानां भयानां मध्ये आजीविकाभयम् अतिदुस्तरम् । यतः - __ "जीवतां प्राणिनां मध्ये राहरेको हिजीवति। यत्तस्य उरं नास्ति धिक्कारशतभाजनम" ||१||
पुनः -'किं किं न कयं को को न पत्थिओ कह कह न नामियं सींस! .
. दुब्भरउयरस्स कए किं किं न कयं किं न कायव्वं" ? ||२|| अत्र दुःखे कस्यापि न दोषोऽस्ति, दोषस्तु पुरा प्रमादवशगेन जीवेन कृतकर्मणामेवोदयः, स तु जगत्त्रये न केनापि वारयितुं शक्यते । प्राणिनां मध्ये येऽतिबलवन्तो निपुणाश्च तैर्नव्यं न कृतम्, पूर्वकृतं च भुक्त्वैव निर्जरानीतम् । अतो यथा कर्म 'नटयति तथा नृत्यते" । इत्येवं परस्परं वार्तालापं कुरुतस्तावद् मनाग्गोपितस्वाकृतिर्धन्य आजगाम । तदा उभे अपि लज्जां मर्यादां च कृत्वा यथायोग्यं स्थिते । अथ धन्यो गोभद्रतनयां सुभद्रां प्रति सव्याजम् एवं व्याजहार-'हे भामिनि ! प्राणाधीशं विना प्राणान् कथं धरसि ? यस्मात् पयःशोषे 'कृष्णो: अपि सहस्रधा विदीर्येत' । सा प्राह-'राजन् ! आशाबन्धो मम जीवितं निपाततो रक्षति यथा शुष्कमपि पुष्पवृन्दं स्थिरो वृन्तपाशो रक्षति । यदा च शुष्केष्वपि शत पत्रेषु भ्रमरः पुनर्वसन्तमासे इमे पल्लविता
१. किं किं न कृतं कः को न प्रार्थितः कुत्र कुत्र न नामितं शीर्षम् ? । दुर्भरोदरस्य कृते किं किं न कृतं किं किं न कर्तव्यम् ? ||१|| २. नर्तयति। ३. कृष्णा भूमिः । ४. मरणात्। ५. कमलेषु ।
॥१६४॥
Jan Education
For Personal Private Use Only
nelibrary.org