SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १६३ ॥ |भविष्यति, तस्य भाग्यशालिनोऽहं भगिनी भद्राकुक्षिसमुद्भवा च गोभद्रस्य सुता, 'यत्समः कोऽपि भुवनत्रये पुत्रैकवत्सलः पिता नास्त्येव । ततो मां प्राप्तयौवनां ज्ञात्वा त्वद्भर्तृसमाssकार-रूप-लक्ष्म्या लक्षितेन, नामतोऽपि त्वद्भर्तृसमेन, सद्भाग्यसम्पदां धाम्ना व्यवहारिसुतेन सह ममोद्वाहः कृतः । तेन च मुरारिणा श्रीरिव परिणीता । प्राप्तपावनपतिसम्बन्धा अहमपि सहर्ष श्वसुरकुले सुखेन दीप्तभोमम्ना वसामि प्रबलबहलपुण्योदयेन गच्छन्त कालमपि न जानामि । किं वर्णयामि सखि ! त्वदग्रे ?, येन दृष्टं स एब जानाति, स्वानुभूतं सुखं स्वमुखेन वक्तुमनुचितम् । ईदशे वर्तमाने मम भर्तृ राज्यमानं कीर्तिं च प्रतिदिनं प्रवर्धमानां दृष्ट्वा भर्तुर्ज्येष्ठबन्धवस्त्रय ईर्ष्यया ज्वलन्तस्तिष्ठन्ति । यस्य कस्याप्यग्रेऽसद्दोषान् प्रजल्पन्ति, तदा स एव तेषां पुरो भर्तुर्गुणवर्णनेन मुखपिधानं करोति, ततस्ते साधिकतरं ज्वलितान्तःकरणास्तिष्ठन्ति । अथ मम भर्ता कालिना मलिनाचारान् इङ्गिताकारेण निजबान्धवान् विलोक्य स्वयं सज्जनस्वभावत्वाद् मां समग्रां रमां च मुक्त्वा क्वचिद् देशान्तरे ययौ । तस्मिन् मम भर्तरि गते तत्पुण्यनियन्त्रिताऽनन्यगतिका लक्ष्मीरपि गृहाद् गता, तडागाद् गते नीरे पद्मिनी किमु तडागान्तस्तिष्ठन्ति ? । ततः स्वल्पैरेव | दिवसैरीदृशं निःश्रीकं गृहं जातं यावत् । स्वगृहमनुष्याणां स्वोदरपूर्तिमात्रम् अन्नमपि नाभूत् । अथ स्वगृहमनुष्याणां निर्वाहकृते मम श्वशुरो राजगृहाद् निर्गतः । तत्र च मम द्वे सपत्न्यौ स्तः, एका राजपुत्री, द्वितीया च महेभ्यपुत्री। निर्गमनं कुर्वता श्वशुरेण ताभ्यामाज्ञा दत्ता- 'भो वध्वौ ? युवां स्वस्वपितृगृहे गच्छतम् अधुना वयं तु देशान्तरे यामः' । इति श्रुत्वा ते तु स्वस्वपितृगृहे गते । विना भर्तारं दुः स्थितगृहे को वसति ? । ततो ममापि आज्ञा दत्ता - ' त्वमपि पितृगृहे गच्छ' । मयोक्तम्- 'अहं तु पितृगृहे न यास्यामि, प्रतिक्षणं श्वशुरकुलनिन्दां श्रोतुं न शक्रोमि, अतः सुखे वा दुःखे वा यादृशी भवतां गतिस्तादृशी ममापि । इति श्रुत्वा सादरं मामादाय सकुटुम्ब १. गोभद्रमः । २. समृद्धिम् । Jain Education International For Personal & Private Use Only षष्ठः पल्लवः ॥ १६३॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy