________________
श्रीधन्यचरित्रम्
॥ १६२॥
Jai Education Intentat
अन्यदा सौभाग्यमञ्जरी दूरतो वन्यदावाऽग्निध्मापिताऽऽम्रलतानिभां निःश्रीकां तां तक्रार्थमागच्छन्तीं दूरतो दृष्ट्वा मनसि | परिभावयति स्म - इयं कर्मकरपत्नी काऽपि उत्तमकुलप्रसूता दृश्यते, यतो रूप लावण्य-लज्जा - विनय, वागादिकम् अस्याः कुलवत्त्वं सुखित्वं च सूचयति । कुतोऽपि पूर्वकृताऽशुभोदयत ईदृशीमवस्थां प्राप्ताऽस्ति, परन्तु सदा दुःखिनी नैवास्ति । अथैनां प्राक् प्रीतिलभ्यां कृत्वा पृच्छामि' । इति ध्यात्वा अग्रत एव सादर मालापिता, विश्रामार्थ सुमञ्चिकायां निवेशिता, स्वयमपि च समीपासने स्थित्वा सुखक्षेमवार्तां कुर्वत्या पृष्टम् -'सखि ! तव मम च सखित्वं संजातम् । सख्ये च संजातेऽन्तरं न भवति । यदुक्तम् -
" ददाति प्रतिगृह्णाति गुह्यमाख्या तिपृच्छति । भुङ्कते भोजयते चैव षड्विधं प्रीतिलक्षणम्” ||१||
अतस्त्वं यदि ममोपरि प्रीत्यै विमलाशयाऽसि तदा मूलतः स्वकीयाख्यां यथार्थाम् आख्याहि, किं स्फटिकभित्तयः स्वान्तःस्थं वस्तु गोपयेयुः ?' । तदा सुमुखी सुभद्रापि लज्जाऽधोमुखी बभाषे 'सखि ! मां किं पृच्छसि ? मम दुर्दैवमेव पृच्छ । कर्मोदयतो मम दुःखानुभववार्तयाऽलम् । प्रत्युत मदुःखवार्तां श्रुत्वा त्वमपि दुःखभागिनी भविष्यसि, अतोऽकथितमेव वरम्' । सौभाग्यमञ्जर्याऽप्युक्तम्-सखि ! त्वयोक्तं सत्यं, परन्तु यस्य कस्याप्यग्रे न वाच्यम्, तथ्यप्रीतिमतोऽग्रे तु कथयितव्यं भवति, | यथाऽहमपि जानामि मम सख्या एतावत्पर्यन्तं दुःखमनुभूतम् । ततो यथानुभूतं वद' । तदा सुभद्रा अत्याग्रहं ज्ञात्वा प्राह-''सखि ! राजगृहे नगरे गोभद्रश्रेष्ठिसुतः समस्तभोगिनां भूपतिः, त्रिजगत्यपि कोऽपि ईदृशो भोगी नास्ति, यो नित्यं सुवर्णरत्नखचिताऽऽभरणानि स्रगादिवद् निर्माल्यकूपे त्यजति, ईदृशः शालिभद्रनामा इभ्यवरस्त्वयापि लोकवार्तायां श्रुतो
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १६२ ॥
www.jainelibrary.org