________________
श्रीधन्य-
चरित्रम्
षष्ठः
पल्लवः
'प्राप्तिर्भाग्यानुसारिणी' इति शास्त्रवचनं सत्य मेवास्ति' । एवं धनसारोक्तां श्लाघां श्रुत्वा समत्सरा वध्वः प्राहुः - ‘अनेन जरद्गवप्रायेण वृद्धेन पुराऽस्मद्देवरं प्रतिदिनं श्लाघयित्वा सर्वेषां स्नेहवित्रोटनं कृत्वा गृहं त्याजितम्। स तु पलायनं कृत्वा कुत्रापि देशान्तरं गतः, यस्य कथमपि 'उदन्तोऽपि नागच्छति । पुनरधुना अस्याः पृष्ठे लग्नो न ज्ञायते किं करिष्यति ?' | तदा एका | वक्ति-'यतोऽस्मच्छ्वशुर इमां भाग्यशालिनीति कृत्वा व्याख्याति, परन्तु अस्या भाग्यशालिनीत्वं श्रृणु-प्रतिप्रभातमुत्थाय खरी इव मृदं वहति यावत् सूर्यास्तसमयं कर्मकरवृत्तिं कृत्वा जठरपूरणं करोति, रात्रौ च पतिवियोग जनितदुःखार्ता भूमौ स्वपिति । अहो ! एषा-भाग्यवतितरा !। ईदृशं भाग्यशालित्वं शत्रोरपि मा भूत् । एवं परस्परं विवदमाना सुभद्रायाम् ईर्ष्या वहमानास्तिष्ठन्ति। पुनर्द्वितीयदिवसे प्रभातेतकानयनार्थं श्रेष्ठिन्या वृद्धस्नुषां प्रत्युक्तम्-'राजमन्दिरै गत्वा तक्रमानयस्व' । तया प्रोक्तम्-'नाहं गच्छामि।ह्यो दिनेवृद्धेन वयं तिस्त्रो निर्भाग्याः स्थापिताः, अतोयुष्मदीयनिपुणवध्वे समादिशतु। सा तक्रार्थगत्वा दधि-दुग्धादिकं लाति, अतस्तामेव मुत्कलापयतु । एवं सखेदं प्रजल्पन्ती स्थिता । तदा वृद्धेनोक्तम्-'वत्से सुभद्रे ! त्वमेव याहि । एतास्तु यथार्थकथनेऽपि ईग्रया ज्वलन्ति। त्वमेव स्वमनसि शीतलीभूय सुखेन गत्वा तक्रमानय सर्वस्य सदृशभवने गृहं न निर्वहति । ततः सुभद्रा वृद्धादेशं लब्ध्वा तक्रार्थं गता। आगच्छन्तीं दृष्ट्वा सौभाग्यमञ्जर्या अग्रत एवालापिताः - 'सखि ! आगच्छ, स्वागतं ते' इत्यादिशिष्टाचारपूर्वकं परस्परं कुशलवार्ताम् आपृच्छय, पुनर्दधि-खण्डादिकं च दत्त्वा विससर्ज । सुभद्रापि तद् लात्वा स्वस्थाने समायता । पुनर्वृद्धन श्लाघिता। तच्च श्रुत्वा तदा तिस्त्रोऽपि ईय॑या ज्वलन्ति। ततः प्रभृति नित्यं सुभदैव तक्रार्थं गच्छति, अन्या तु नैकापि गच्छति।
॥१६॥
१. उदन्तो वार्ता-वृत्तान्तः । २. गर्दभी। ३. उदरपूर्तिम्।
For Personal & Private Use Only