SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १६० ॥ पुनः- “ क्षीणो मृगयतेऽन्येषामौचित्यं सुमहानपि । द्वितीयाभूः प्रजाद्त्ततन्त्वन्वेषी यथा शशी" ॥१॥ व्याख्या - योऽतिस्वच्छो महानपि क्षीणो भवति सोऽन्येषाम् औचित्यं मृगयते । यथा द्वितीयाभूः - क्षीणः शशी | प्रजादत्ततन्त्वन्वेषी भवति । ततो धन्यो भृत्यादीनपि विशेषस्तु पित्रादीन् सत्कार्य दैवदुर्ललितं निन्दन् निजावासम् आसदत् । | अथ धनसारं भृत्या जगुः - अहो ! वः सन्निधेर्वयमपि सुखिनोऽभूम, यतः सत्सङ्गः श्रेयसे भवति । अथो द्वितीयदिवसाद् धनसाराज्ञया पुत्रवधूटिकाः क्रमाद् जलार्थमम्बुधौ कादम्बिन्य इव तक्रार्थ धन्यसौधे ययुः । धन्याज्ञया च सौभाग्यमञ्जरी ताभ्यस्तक्रं ददौ, यद् भृर्तुवश्यता स्त्रीणां सैव परा नीतिः । अन्यदा धन्यः प्रियामेवमशिषत् - 'हे प्रिये ! ज्यायसीभ्यस्तिसृभ्यो बधूटीभ्यस्त्वया सज्जनचित्तवत् स्वच्छं-निर्मल तक्रं देयम्-असारतक्रमित्यर्थः । पुनर्यद्दिवसे कनीयसी तक्रार्थमागच्छेत् तदा त्वयाऽस्यै सारतरं दधि - दुग्धादि च देयम् । पुनः प्रियाऽऽलापादिभिरनया सह प्रीतिं कुर्याः, मेदो न रक्षणीयः' इति पत्यादेशः प्रसन्नया सौभाग्यमञ्जर्या शिरसि धारितः । तद्दिनाद् अवक्रेण हृदा सर्वदैव सा पत्यादेशाऽनुरूपं चक्रे । यद्दिने सुभद्रा तक्रार्थमागच्छति तद्दिने सा प्रमोदेन दधिदुग्ध-पकान्न - खर्जुरा -ऽक्षोटक - सितोपलादिकं च तस्यै ददाति, प्रियभाषेणनालापयति, सुख दुःखादिशरीरोदन्तं च | पृच्छन्ति । ततः सा विविधसुखभक्षिकादिकं गृहीत्वा स्वोत्तारके चागत्य वृद्धस्याग्रे मुञ्चति । वृद्धोऽपि च तद् वीक्ष्य सुभद्राम् अश्लाघत-'भो भोः पुत्राः ! पश्यत, पश्यत भाग्यवतः पुत्रस्यैषा पत्न्यपि भाग्वती सती कीदृशी समस्ति ? यत्पुण्यवतोपभोग्यं सुखभक्षिकादिकं गृहीत्वाऽऽगता । अन्या अपि वृद्धाः स्नुषाः प्रतिदिनं गच्छन्ति तदा स्वच्छजलोपमं तक्रं लात्वाऽऽगच्छन्ति । तेनात्र न किञ्चिदन्यत् परिभावनीयम्, ताभिर्न किञ्चित् कृतमस्ति, अनया किमपि दत्तं नास्ति, परन्तु भाग्यमेवात्र प्रमाणम् । Jain Education International For Personal & Private Use Only षष्ठः पल्लवः ॥ १६० ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy