________________
श्रीधन्यचरित्रम्
॥ १५९ ॥
| पक्वेक्षुखण्डानि तद्रसघटांश्च सर्वेषां विशेषस्तु सपरिवारस्य वृद्धस्य ददौ । एकस्मिन् दिने वृद्धस्योक्तम्- 'यौष्माकीणा पटी | जीर्णा जाता दृश्यते' । धनसारेणोक्तम्-स्वामिन् ! वयं निर्धनाः कति व्ययान् कर्तुमुत्सहामहे ?, व्ययं विना पटी कृतः ? । परं च ममैकस्य पटीं कुर्वतः सपरिवारस्य पटी करणीया भवति, अतो यथाकथञ्चित् कार्यं निर्वहणीयम्' । तदा धन्येन सपरिवारस्य धनसारस्य स्त्रीपुरुषयोग्यानि वस्त्राणि दत्तानि, सर्वेषां कर्मकराणामपि एकैका पटी दापिता, तेऽपि हर्षं प्राप्ता वृद्धं प्रशंसन्ति । एवं प्रतिदिन धनसारस्य मनोऽकूलताम्बूल - दुकूल - सुखभक्षिकादिप्रदानतः सत्कारं करोति । कर्मकराणामपि यथायोग्यम्, भ्रात्रादीनां च विशेषतः सत्कारं करोति । परं प्रबलपुण्यप्राग्भार- प्रभावतो न कोऽपि उपलक्षयति । अन्यदा धन्येन स्थविर आलापितःसाम्प्रतं निदाघः समागच्छति, भवदीयाऽवस्था तु जराजीर्णा, वासरापगमे चक्रवाक बिहगानामिव तक्राऽभावे वो निशाऽन्धता भविष्यति' । धनसारेणोक्तम्- 'स्वामिन् ! एतद् वयमपि जानीमः परं गवादीनामभावात् तक्रं कुतः प्राप्यते ?, गवादिरक्षणे तु महाव्ययो भवति, अतो निर्धनानां मनोरथोऽन्तर्गडुर्ज्ञेयः' । तदा धन्येनोक्तम्-एतद् दीनवाक्यं न चाच्यम् । मद्गृहे गवादिपशूनां महद्वृन्दं तिष्ठति, दुग्धादिकं च प्रचुरं जायते, अतस्तक्रं प्रचुरं भवति । तेन हे वृद्ध ! प्रत्यहं युष्याभिर्मद्गृहात् तक्रमुद्ग्राह्यम् । महतामपि तक्रमार्गणे लाघवं न भवतीति लोककेऽप्युक्तमस्ति, अतो नित्यं तव वध्वो मद्गृहे तक्रार्थमायान्तु । मद्गृहं तु आत्मीय गृहमेव गण्यम्, अन्तरं न गण्यम्' । तदा पटुचाटुना धनसारेणोत्थाय 'महान् प्रसादः' इत्यूचे । संसारे चत्वारि स्थानानि धिक्कारभाजनानि, यदुक्तम्
"दरिद्रता च मूर्खत्वं परायत्ता च जीविका। क्षुधया क्षामकुक्षित्वं धिक्कारस्य हि भाजनम्" ॥१॥
Jain Education International
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १५९ ॥
www.jainelibrary.org