________________
श्रीधन्यचरित्रम्
॥ १५८ ॥
Jain Education International
इत्युक्तवा सर्वैरपि प्रणामो विहितः । धन्य एवं कृत्वा गृहं गतः । ततः सर्वेऽपि कर्मकराः परस्परं विवदन्ते-अयं वृद्धः कृतपुण्यो | दृश्यते !, यतो राज्ञा दर्शनमात्रेण कर्मकरत्वं त्याजितम् । अन्यो वदति - किं न श्रुतम्, यतः -
"इक्षुक्षेत्रं समुद्रस्य योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो घ्नन्ति दरिद्रताम्" ॥१॥
पुनस्तृतीयदिने आगतः ससभ्यस्तरुतले स्थितः । कियत्क्षणे पूर्वसङ्केतितपुरुषैर्द्राक्षा-ऽक्षोटक - खर्जूरादिखा - द्यवस्तूनि धन्यस्याग्रे ढौकितानि । धनसारस्तु धन्यस्यागमनमात्रे पूर्वमेव कृतप्रमाणस्तत्र स्थितो वर्तते । ततो धन्येन वृद्ध आलापितः - इद्र द्राक्षादिखाद्यं गृह्णातु, यतो वृद्धानां कोमलं खाद्यं मुखे लगति, बालत्वं वृद्धत्वं च समानमुच्यते जनैः' । ततो धनसारेण यथादेशो महताम्' एवमुक्त्वा कर्मकराणामुपरि दृष्टिर्दत्ता । ततो धन्येन विहस्योक्तम्- 'किम् अमीषां सर्वेषां दापयितुं मनोरथोऽस्ति ?, घटत्येव वृद्धानाम्, ये केचन एकत्र संपृक्तास्तान् दत्त्वैव स्वयं गृह्णातीति उत्तमकुलनीतिः' । इत्युक्त्वा सर्वेषां मध्ये उत्तमकुलवत्वं ज्ञापितं तस्य । ततः सर्वेषां कर्मकराणां, विशेषतस्तु वृद्धस्य बहुतरं दत्तम् । तदुपरि पुनः ताम्बूलादि दत्त्वा गतः । अथ पुण्यवदुचितं खाद्यं संप्राप्य हृष्टाः कर्मकराः परस्परं कथयन्ति - 'पुण्यबलोऽयं वृद्धः, अनुपलक्षितमपि राजा दर्शनमात्रेण बहुमानं ददाति । अस्य वृद्धस्य प्रभावेण अनास्वादितपूर्व खाद्यमास्वादितम्, यथा महादेवपूजने षण्डोऽपि पूज्यते । ततः सर्वेऽपि कर्मकरा वृद्धस्यास्य कुटुम्बस्य च आज्ञावर्तिनो जाताः । एवं प्रतिदिनं वृद्धस्य शुश्रूषाऽऽशया तत्रागच्छति । तत्र च स्थित्वा कस्मिश्चद् दिने कदलीफलानि, कस्मिन् दिने वा जम्बीरफलानि, कस्मिन् दिने नालिकेरखण्डानि शर्करामिश्राणि, कदापि नारङ्गफलानि, एवम् अञ्जीरफलानि,
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १५८ ॥
www.jainelibrary.org