SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १५७ ॥ Jain Education Inte भेदकृद्भोजनकरणं कुनीतिः, तस्मात् त्वं स्वामिनं तादृशीं विज्ञप्तिं कुरु येनाऽस्माकमपि घृतादेशो जायेत' । तदा धनसारेण पुनः प्रणामं कृत्वा धन्यो विज्ञप्तः - 'स्वामिन्! अहमेव एको घृतं 'अदन् न चारू दृश्ये, तस्माद् एतेषां मम सहकारिणामपि घृतादेशो भवतु । भवादृशां दानशौण्डीराणां पङ्क्तिभेदो न शोभाकृद् भवति, अतो महाप्रसादः क्रियताम्, येन ममोपरि कृपा श्लाघनीया भवति' । तदा धन्येनाऽतिविनीतेन 'पितृवचः प्रमाणं कर्तव्यम्' इति ध्यात्वा सर्वेषां कर्मकराणां घृतादेशः कृतः । तत् श्रुत्वा सर्वे कर्मकरास्तुष्टिं प्राप्ताः ते सर्वे सानुकूला घनसारं प्रशंसन्ति । तत एष धन्यो घृतदापनजै रसैः उन्नतधाराधरो वृक्षानिव भृत्यान् उल्लास्य यथागतं जगाम । पुनर्द्वितीयदिवसेऽपि तत्र पित्रादीन् सत्कर्तु कानने वृक्षान् सपल्लवीकर्तुं वसन्त इव आगतः । गत सर्वैरपि पित्रादिभिः कर्मकरैः प्रणामादिरुचितप्रतिपत्तिः कृता । ततो धन्यस्तत्र स्थित्वा वृद्धमालापयति- 'एते त्रयस्तव पुत्राः कर्मकराः, स्त्रियश्च नित्यं सरःखननक्लिष्टोद्यमं कुर्वन्ति, तदा त्वमपि वृद्धो भूत्वा किमद्यापि क्लिष्टक्रियां करोषि ? । कीदृशाश्च तव पुत्रा ये क्लिष्टक्रियाया न वारयन्ति ?' । धनसारोऽवक्- 'स्वामिन्! वयं निःस्वा निरालम्बनाश्च । किमपि पुण्ययोगेनाऽर्जनोद्यमं लब्ध्वा लोभेनाऽभिभूय एकाऽधिकवृद्धिलोभेन वृद्धत्वेऽपि कर्मकरत्वं करोमि । दारिद्यतापनिवारणघनाघनाः पुनः पुनर्भवादृशाः कुतो मिलिष्यन्ति ? । अस्मिन्नवसरे मेलिता 'नीविरग्रे व्यापारादिकार्ये आयाति, अतः कायचिन्तामुपेक्ष्य उद्यमं करोमि । ततो विहस्य धन्यः सर्वान् कर्मकरान् नियोगिनं च आकार्य आदिदेश 'भो भोः कर्मकराः ! अयं वृद्धो जराजीर्णः खननक्रियार्हो न एवं दृष्ट्वाऽस्माकं दया उत्पद्यते, अतः परम् अनेन कर्म न कार्यं केनापि नित्यं सर्वसमाना वृत्तिस्तु देया' । 'महतां वचः प्रमाणम्' १. भक्षयन् । २. घनाघनो मेघः । ३. नीविः परिपणः - मूलधनम् । For Personal & Private Use Only षष्ठः पल्लवः ॥ १५७ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy