________________
श्रीधन्य
चरित्रम्
॥ १५६॥
Jain Education Intes
| करुणा नास्ति जडत्वाद् इति हार्दम्" । इति ध्यात्वा पितरमालाप्य प्राह-'यूयं तु नवीना दृशयन्ते । के यूयम् ?, कुत आगताः ? का जातिः ?, एतेषां स्त्री-पुरुषाणां भवतां च कः सम्बन्धः ?' । इति पुष्टे पुण्योदयप्रबलतावशेन विविधरत्न| सुवर्णाभरणभासुरताकृतविनिमयेन च धन्यमनुपलक्षयन् धनसारोऽनुपलक्ष्यताकृते स्वकीयजाति-कुल-वंशादि | गोपयित्वाऽवसरोचितं यत्किञ्चित् तदुत्तरं ददानः प्राह - "स्वामिन् ! वयं विदेशादागता निर्धना आजीविकोपायं गवेषयन्तो भवत्पुराऽऽगमनमात्रेण शुभं भवतां परोपकरणव्यतिकरं श्रुत्वा तद्दिनाद् अत्रागत्य सुखेन आजीविकां कुर्मः । प्रतिप्रभातं समुत्थाय भवद्भय आशिषं दद्मः - 'चिरं जय, चिरं नन्द चिरं पालय मेदिनीम् । यतोऽस्मादृशानां तु भवानेव जङ्गमकल्पवृक्षोऽस्ति' । इत्यादिचाटुवचनानि उक्त्वा प्रणिपत्य च स्थितः । तदा धन्यस्तातस्य चाटुवचनानि श्रुत्वा दध्यौ - “ अहो ! दृश्यताम्, धनक्षये | मतिविभ्रमः कीदृशः संजातः ?, आबाल्यात् परिपालितोऽपि निजात्मजोऽहं नोपलक्षितः । यदुक्तं शास्त्रे - 'तेजो लज्जा मतिर्मानमेते | यान्ति धनक्षये' । यथा मतिमूढाः पशवो निजात्मजमपि संजातधौरेयं नोपलक्षयन्ति, तथाऽमी ऋद्धं मां नाऽभिजानन्ति । अधुना | दरिद्रभावाद् लज्जमाना अमी स्ववंशादिकमगोपयन् अश्रीकास्तारा दिवा स्वयं दर्शयेयुः किमु ? । ततोऽधुनाऽहमपि स्वं न ज्ञापयामि, समये ज्ञापयिष्यामि, यत् पथ्यमपि अकाले रोगिणां विकाराय स्यात्' । इति ध्यात्वा मौनं कृत्वा किञ्चित् स्नेहोऽपि | दर्शनीयः इति विचार्य नियोगिनमादिशत्- 'अयं वृद्धो जरया जर्जरितोऽस्ति, तेन अस्य तैलं गुणकृद् न भवति, अतोऽस्य घृतं देयम्' । तदा धनसारो 'महान् प्रसाद' इत्युक्त्वा प्रणामं चकार । तदा सर्वे कर्मकरा वृद्धं प्रत्यूचुः - 'भो वृद्ध ! तवोपरि स्वामिनां महती कृपाऽस्ति येन तुभ्यं घृत दापितम् । परं त्वमेवैको घृतयुतं किं भोजनं करिष्यसि ?, इदं तु न शोभनम्, यद् उत्तमानां
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १५६॥
www.jainelibrary.org