SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १५५॥ Jain Education International | विश्रम्य सर्वेषां कर्मकराणां खननप्रवृत्तिं विलोकयितुं लग्नः, तावता एकत्र भृत्यवृत्या क्लिश्यद् निजकुटुम्बकं दृष्ट्वा चकितः सन् दध्यौ -'अहो ! सुरैरपि अनुल्लङ्घया कर्मरेखा दृश्यते ! । यतः - "उदयति यदि भानुः पश्चिमायां दिशायां, प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां तदपि न चलतीयं भाविनी कर्मरेखा ॥१॥ इमौ पितरौ भ्रातरो भातृजाया ममापि च जाया, एतत्समस्तं मम कुटुम्बम् । अहो ! हन्त कीदृशीम् असम्भावनीयदुर्दशां दैवेन प्रापितम् ? एषा शालिभद्रस्वसाऽपि कथं मृत्तिकां वहति ? । यद्वा विचित्रा कर्मणां गति रिति सर्वज्ञवचनं न मिथ्या भवति, | यतोऽनेकराजमण्डल्युपास्यमानक्रम' कजोऽपि हरिश्चन्द्रः किल चाण्डालगृहेऽम्बुवहनं कृतवान् ! । तथा च सतीनामग्रणीर्दमयन्ती' अति अतिदुःखिनी यौवने घोरवने एकाकिनीं समयं गमयामास । जगत्त्रये केनापि न अभुक्तं कर्म क्षपितम् । ये केचन जिनादयोऽतुलबल-वीर्योत्साहयुक्तास्तैरपि नव्यं कर्म न कृतं, परं पूर्वबद्धं तु भुक्त्वैव क्षपितम् । वक्रे विधौ कुतः सुखी भवति ?, भूपतेर्मुकुटाद् भ्रष्टं रजसाऽऽच्छादितम् अलक्ष्यचैतन्यं देवाऽधिष्ठितं च रत्नमपि जनांघ्रिघट्टनादयो बहवो विपदः सहते, तदा रागादिदोषप्रबलोदयवतां मनुष्याणां सुतरां सहनं भवति । तत्र कातरत्वं न करणीयम्; यतः कातरभावेन सहमानस्य प्रत्युत शुभकर्मणो वृद्धिः, शुभस्य चाऽशुभे संक्रमणं, रसहानिश्च जायते, तस्माद् अव्याकुलत्वेन सम्मुखभावेन सोढव्यम् । यतः कर्मणः १. कजं कमलम् । २. नलपत्नी । For Personal & Private Use Only षष्ठः पल्लवः ॥ १५५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy