SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १५४॥ Jain Education ये च अत्यन्तनिर्धना दुःस्थाः, ते तु अस्य श्रेष्ठिनो महासरः स्वदारिद्यमिव खनन्ति । अत्रेयं रीतिः कृताऽस्ति - कर्मकरीणां स्त्रीणां | प्रतिदिनमेकं दीनारं पुरुषाणां च द्वौ दीनारौ श्रेष्ठी दत्ते, द्विवेलं च तैलान्नादि भोजनं यथेप्सितं ददाति । साम्प्रतमत्र ये निःस्वाः कर्मकरा आसन् ते सरः - खननोपायेन सुखं जीवन्ति' । इति नगरवास्तव्योक्तां गिरं श्रुत्वा स सहर्षोऽभूत् । ततः सपरिकरो धनसारस्तत्र गत्वा सरःखननाधिकारिणं सविनयं नत्वा स्वाऽऽजीविकां विज्ञपयामास । ततस्तेन अधिकारिमहत्तमेनोक्तम्- 'भो वृद्ध ! 'अस्मदीयस्वामिनां पुण्यबलेन एते कर्मकराः सरःखननोपायेन सुखेन जीवन्ति । तत्र त्वमपि सकुटुम्बः खननोद्यमं कुरुष्व वृत्तिं च गृहीत्वा सुखेन कालनिर्वहणं कुरु' । ततो धनसारस्तस्यादेशं प्राप्य सकुटुम्बस्तस्य सरसः खननाय प्रवृत्तः । प्रतिदिनं कर्मकरवृत्तिं च लब्ध्वा तत्रैव 'आरात्कृतोटजे स्थितः सुखेन उदरपूर्तिं करोति स्म । यतः स्वकृतकर्मोदयवशगा जीवा दुष्पूरोदरपूर्तये किं किं न कुर्वन्ति ?, तस्मात् साधकजनैः प्रतिक्षणं बन्धचिन्ता न मोक्तव्या । एवं कियत्यपि काले गतेऽन्यदा दिनार्दोत्तरसमये सम्पदापूर्णे स्तूर्णप्राप्तैर्जनैर्वेष्टितं, मन्त्रि - सामन्तादिभिः परिवृतं, | पदातिहस्त्यश्ववृन्दैः संयुतं, सोत्साहमागधश्रेणिकृतगुणवर्णनं, धृतसौवर्णदण्डोच्चमायूरातपवारणं, उत्तप्तस्वर्णगौराङ्गं, विचित्ररत्नालङ्कारभासुरं, ज्वलद्दिव्यौषधिज्योतिर्जालं किमु स्वर्णाचलम् ?, 'चिरं जीव, चिरं, जय, चिरं नन्द' इत्यादि वदस्तु | बन्दिवृन्देषु यावज्जीवोपभोगार्हं धनसञ्चयं दत्तं, सरोवराऽवलोकनकार्यकौतुकाऽऽयतलोचनम्, एतादृशं धन्यं तत्रागतं दृष्ट्वा सर्वे कर्मकरा हर्षेण नेमुः । ततः सर्वेषां प्रणामं गृहीत्वा एकान्तेऽशोकतरुच्छायावा सेवकैः कृते राजाऽर्हासने उपविष्टः । तत्र चक्षणं १. गौरवे बहुवचनम् । २. समीपरचितकुट्याम् For Personal & Private Use Only षष्ठः पल्लवः ॥॥ १५४ ॥ keww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy