________________
श्रीधन्यचरित्रम्
पल्लव:
***********
अन्यथा विना कारणं गमनं तु दोष एव । ततो विपत्तिसमये तु सुतरां श्वशुरगृहे वसनं युक्तम् । यदि आपदि पितर्गृहे गम्ये तदा भ्रातृजायाप्रभृतिपितृगृहाश्रिता जनाः १श्वशुरकुलवचनीयतामतन्वन्ति । तद्यथा-'अस्माकं ननान्दृपतिः अविमृश्यकार्यकर्ता, | निष्कारणम् अनापृच्छय सहसा कुलवतीं विडम्बनापथि मुक्तवा क्वापि गतः, गृहनिर्वाहकारस्तु क्षमणशीलो भवति तदा गृहं निर्वहति' । तदाऽन्यो वदति- २भावुकस्य न दोषोऽस्ति । अहर्निश कर्मकारवत् कुटुम्बसेवाव्याकुलस्तिष्ठति, परन्तु अस्य ज्येष्ठभ्रातरस्त्रयोऽपि कुटिलस्वभावा यवासकवृक्षसदृशा अस्योन्नतिमसहमानाः, तेषां दुर्वचनैः खेदितो देशत्यागेन दुर्जनम्' इति नीतिं स्मृत्वा सुसज्जनस्वभावत्वाच गृहं मुक्त्वा गतः । यदुक्तम्- 'अपमाने न तिष्ठन्ति सिंहाः सत्पुरुषा गजाः' । तदैको वक्ति-इदं न पौरुषेयचरितम्, बहुभिर्दुर्जनैः खेदितस्तेजस्वी पुरुषः किमु नंष्ट्वा गच्छति ?, यूकाभयात् किं परिधानवस्त्रं त्यज्यते!, प्रत्युत दुर्जनानां यथायोग्यं शिक्षा क्रियते येन पुनस्तस्य वार्तायामपि नाम न गृह्णन्ति । यदुक्तं शिक्षाशास्त्रे दृष्टान्तश्लोके - "शठं प्रति शान्यं कुर्याद् मृदुकं प्रति मार्दवम । त्वया मे लुचितौ पक्षौ मया मुण्डापितं शिरः" ||१||
'इत्यादि शास्त्राणां हार्द जानन्नपि राजादिभयरहितोऽपि समस्तपुरे आदेयवचनोऽपि दृढबद्धमूलोऽपि यद् नंष्ट्वा गतस्तद्न भव्यं कृतम् । नेदं धीरचरितम् । इत्यादि पितृगृहपक्षीया जना यथाकथञ्चिच्छ्रवणकटुवचनानि आलपन्ति, तत्राऽहं कस्य मुखे हस्तं ददामि ? । एकं तावद् वल्लभवियोगाऽर्दनम्, द्वितीयं तस्योपरि क्षतक्षारतुल्यं निन्दावचनश्रवणम्, तृतीयं च पराधीनवृत्त्या
१. निन्दनीयत्वम् । २. स्वसुभर्तुः । ३. अत्र शुक-पण्याङ्गनयोदृष्टान्तः कथनीयः ।
in Education Intensa
For Personal & Private Use Only
www.jainelibrary.org