SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् षष्ठः पल्लव: ******** दुर्वचनं जल्पति, प्रत्युत करुणया किमपि साहाय्यं करोति। स्वदेशे तु पदे पदे लोकानां दुर्वचनानि श्रुत्वा हृदयं दह्यते। सुविधोऽपि | सुरूपोऽपि निर्धनो (न वि) नाऽर्थमर्धति, यथा स्वक्षरोऽपि सुवृत्तोऽपि कूटो रूप्यको जने नाऽर्घति। हे वत्साः ! समयोचितभाषासु व्यापारक्रियासु च कुशलोऽपि निर्धनः श्लाघ्यो न भवति, यथा स्वक्षरकाव्यं सुकण्ठेन प्रलपितमपि अर्थशून्यं श्लाघ्यं न भवति, अतो देशान्तरं गम्यते । एवमुक्तवा निर्वाहाय अन्यदेशं गन्तुमनसा धनसारेण सोमश्री-कुसुमश्रियौ पितुर्गृहे प्राहेषाताम् । तथा च सुभद्रां प्रति साश्रुलोचनः सगद्गदमिति जगाद-'हे शुभाशये ! भवत्यपि गोभद्रस्य गृहे यातु। अस्माकं तु दुष्कर्मोदयप्रबलतावशाद् भाग्यैकनिधिः पुत्रः क्वापि गतः, तत्पृष्ठे सम्पदपि गता। वयमत्र स्थिताः कुटुम्बनिर्वाहं कर्तुमक्षमाः, अतो देशान्तरं यामः देशान्तरे च निर्धनानां निरूपलक्षितानां स्थानभ्रष्टानां का का विपत्तिर्न भवति ? । त्वं तु अत्यन्तसुकोमला सुखलीलैकमग्ना दुःखसंपातवार्तायाम् अविज्ञाऽसि, तस्माद् हे वत्से ! त्वं सुखभृते पितुर्गृहे गच्छ। यदा च अस्माकं भाग्यभृतस्त्वद्धवस्य सङ्गमो भविष्यति तदा तवामन्त्रणं करिष्यामः' । इति श्वसुरोक्तं श्रुत्वा सुभद्रा तं प्रत्युत्तरं दत्तवती-"स्वामिन् ! भावदृशानां कुलवृद्धानां कुटुम्बचिन्तैकरसिकानां सर्वेषामुपरि सुदृष्टीनाम् अस्मदीयदुःखदर्शनाऽक्षमाणाम् एकमेव वक्तुमुचितम्, तथापि अहं तु शीलसहाया सह आयास्यामि, यतो | विपत्तिसमयेऽपि सतीनां भर्तुर्गृहमेव गतिः । यदुक्तं नीतिशास्त्रे - "नारीणां पितुरावासे नराणां श्वशुरालये। एकस्थाने यतीनां च वासो न श्रेयसे भवेत्" ||२|| "तथा यदापि सम्पूर्णा लक्ष्मीः सौख्यं च प्रचुरतरं भवति तदापि स्त्रीणां महोत्सवादिकारणमुद्दिश्य पितुर्गृहे गमनं युक्तम्, Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy